Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 75
________________ ७१ श्रीश्रेणिकचरित्रम् । चक्रिणोऽपि तथैवामी, दीर्घदन्ताभिधोऽग्रिमः । द्वितीयो गूढदन्ताख्यः, शुद्धदन्तस्तृतीयकः ।।७१९ ।। तुर्यः श्रीचन्द्रनामा तु, श्रीभूतिरिति पञ्चमः । सोमाभिधानकः षष्ठः, सप्तमः पद्मनामकः ।।७२०।। अष्टमस्तु महापद्मो, नवमो दर्शनाह्वयः । दशमो विमलश्चैकादशो विमलवाहनः ।।७२१।। द्वादशोऽरिष्ठनामा तु, नवामी त्वर्धचक्रिणः । नन्दिश्च नन्दिमित्रश्च, तथा सुन्दरबाहुकः ।।७२२ ।। महाबाहुरतिबलो, महाबलो बलस्तथा । द्विपृष्ठश्च त्रिपृष्ठश्च, बलदेवास्त्वमी नव ।।७२३।। बलश्च वैजयन्तश्चाजितो धर्मश्च सुप्रभः । तथा सुदर्शनानन्दौ, नन्दनः पद्म इत्यपि ।।७२४ ।। तिलको लोहजङ्घश्च, वज्रजङ्घश्च केसरी । बलिः प्रह्लादनामा च, तथाऽपराजिताभिधः ।।७२५।। भीमः सुग्रीवनामा च, नवामी प्रतिविष्णवः । शलाकापुरुषा एते, त्रिषष्टिरिति भाविनः ।।७२६।। पृष्टमागामिकालादिस्वरूपं यत्त्वया किल । इन्द्रभूते ! तवाग्रे तद्, तन्मयेति प्ररूपितम् ।।७२७ ।। श्रुत्वेति गौतमो वीरं, ववन्दे प्रभुरप्यथ । कार्तिके दर्शयामिन्यां, जगाम पदमव्ययम् ।।७२८ ।।

Loading...

Page Navigation
1 ... 73 74 75 76 77 78