Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् । वैताढ्यर्षभकूटाद्री, गङ्गासिन्धू च निम्नगे । मुक्त्वाऽन्यद् गिरिगर्तादि, भविष्यति समं समम् ।।६६४ ।। भस्मरूपा तदा भूमिर्मुर्मुराङ्गारसन्निभा । कदाचित्कर्दमाकीर्णा, कदाचिद् वह्निदुर्गमा ।।६६५ ।। विद्यन्ते चोपवैताढ्यं, गङ्गासिन्धोस्तटे तटे । बिलानि नव सर्वाणि, द्वियुक्ता सप्ततिस्ततः ।।६६६ ।। तत्र स्थास्यन्ति ते माः, कुवर्णाः कर्कशक्तियः । क्रोधनाश्च कुसंस्थाना, एकहस्तसमुच्छ्रयाः ।।६६७।। निर्वस्त्रा निस्त्रपाः क्रूरा, नरा नार्यश्च भाविनः । विंशत्यब्दी नृणामायुः, स्त्रीणां षोडशवत्सरी ।।६६८ ।। तदाऽतिदुःखप्रसवा, षड्वर्षोंदरिणी तथा । अनेकपुत्रपौत्रा स्त्री, वृद्धा षोडशवार्षिकी ।।६६९ ।। मांसासिनो मनुष्यास्ते, निष्कृपा निर्विवेककाः । बीजमात्रं तु तिर्यञ्चस्तदा तत्रैव भाविनः ।।६७०।। गङ्गासिन्धुसरितोयं, तदा रथपथप्रमम् । प्रवक्ष्यति तथा मत्स्यनक्रचक्रकुलाकुलम् ।।६७१।। रात्रौ तत्रैत्य मत्स्यादीन्, कृष्ट्वा मोक्ष्यन्ति ते स्थले । दिवाळतापपक्वांस्तान्, भोक्ष्यन्ते च निशान्तरे ।।६७२ ।। ते कृत्वेत्यघमेष्यन्ति, तिर्यक्षु नरकेषु च । षष्ठोऽरो भवितेत्यब्दसहस्राण्येकविंशतिम् ।।६७३।। यादृशाववसर्पिण्यामन्त्योपान्त्याविमावरौ । तावन्तौ तादृशावुत्सर्पिण्यामाद्यद्वितीयको ।।६७४ ।।

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78