Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 68
________________ ६४ अकाले वर्षिता काले, न वर्षिष्यति वारिदः । सज्जना भाविनो दुःस्था, दुर्जनाः सुस्थिताः पुनः । । ६४२ ।। ज्ञान श्रद्धानविज्ञानध्यानधर्म्मधनायुषाम् । मणिमन्त्रौषधादीनां, फलपुष्परसौजसाम् । । ६४३ ।। गात्रोच्चत्वस्य रूपस्य क्रमाद्धानिर्भविष्यति । अन्येषामपि भावानां शुभानां पञ्चमे रे ।।६४४ ।। श्रीश्रेणिकचरित्रम् । षष्ठेऽधिकतरा त्वेवं ज्ञात्वा यो धर्म्मकर्म्मणि । , समुद्यस्यति तस्यैव, सफलं जन्म जीवितम् ।।६४५ ।। सुधर्म्माद्या भविष्यन्त्याचार्या दुष्प्रसहान्तिमाः । युगप्रधानताभाजो, द्वौ सहस्रौ चतुर्युतौ । । ६४६ ।। सूरिर्दुष्प्रसहो नाम, फल्गुश्रीश्च प्रवर्त्तिनी । श्रावको 'नायिलाभिख्यः, सत्यश्रीश्राविका तथा । । ६४७ ।। सङ्घोऽयं भरते भावी, राजा विमलवाहनः । धीसखः सुमुखश्चान्त्योऽवसर्पिण्यां हि गौतम ! ।। ६४८ ।। तदारतस्तु यः कश्चिद्, धर्म्मा नास्तीति वक्ष्यत । सङ्घेन गुणसङ्घेन स कार्यः सङ्घतो बहिः । । ६४९ ।। " सोऽथ दुष्प्रसह स्वर्गात् च्युतो द्वादशवार्षिकः । प्रव्रजिष्यति तस्याष्टी, समास्तु भविता व्रतम् ।।६५० ।। नन्दीमावश्यकं चानुयोगद्वाराण्यसौ तथा । दशवैकालिकं जीतकल्पं चाध्येष्यते सुधीः ।।६५१ ।। स चतुर्दशपूर्बीव, तीर्थस्यास्य प्रवर्त्तकः । शक्रेणार्चिष्यतेऽभीक्ष्णं, लोकपालैश्च भक्तितः । । ६५२ ।। १. नागिला ० ।।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78