Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 71
________________ ६७ श्रीश्रेणिकचरित्रम् । तत्र प्रथमकारान्ते, पञ्चाप्येते घनाघनाः । सप्त सप्त दिनान्यत्र, वर्षिष्यन्ति पृथक् पृथक् ।।६७५ ।। ते च पुष्करदुग्धाज्यपीयूषरसनामकाः । भूशैत्यधान्यसुस्नेहौषधीरसविधायिनः ।।६७६ ।। द्रुमौषधिलतादीनि, निरीक्ष्य बिलवासिनः । निर्यास्यन्ति बिलेभ्यस्ते, हृष्टा गुप्तिगृहादिव ।।६७७ ।। वक्ष्यन्तीतः परं मांसं, न भक्ष्यं यस्तु भक्षिता । स त्याज्योऽन्त्यजवच्चेति, करिष्यन्ति व्यवस्थितिम् ।।६७८ ।। कालो यथा यथा गामी, वर्धिष्यन्ते तथा तथा । वपुः शक्तिसुखायूंषि, धनधान्यादिकानि च ।।६७९ ।। यादृक्षे भरतेऽमुष्मिन्, कालस्तादृक्ष एव हि । अन्येषु भरतेष्वैरवतेष्वपि च सर्वदा ।।६८०।। ततः कुलकरा: सप्त, दुष्षमान्तेऽत्र भारते । भाविनो गौतमैतेषामाद्यो विमलवाहनः ।।६८१ ।। द्वैतीयीकः सुदासाख्यस्तृतीयः सङ्गमाभिधः । तुर्यः सुपार्श्वनामा च, पञ्चमो दत्तनामकः ।।६८२ ।। षष्ठस्तु सुमुखाभिख्या, संमुचिश्चेति सप्तमः । पूर्वोऽमीषां पुनर्भावी, जातजातिस्मृतिः स तु ।।६८३ ।। संग्रहीष्यति हस्त्यादीन्, ग्रामादीन् रचयिष्यति । नीतिशिल्पकलादींश्च, प्रजानां दर्शयिष्यति ।।६८४ ।। इत्युक्तं दुष्षमादीनां, स्वरूपं तव गौतम ! । शलाकापुरुषानेवं, भाविनस्त्वधुना शृणु ।।६८५।।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78