Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् । भावी म्लेच्छकुले राजा, विष्टौ चैत्राष्टमीदिने । त्रिनामा पाटलीपुत्रे, कल्की रुद्रश्चतुर्मुखः ।।५९८ ।। मथुरापुरि कृष्णस्य, तदा देवकुलं महत् । अकस्मात् पवनोद्भूतं जीर्णद्रुवत् पतिष्यति ।।५९९ ।। दुर्भिक्षडमरावृष्टिचौरेतिभयविह्वलाः । भविष्यन्ति जनास्तस्मिन्, नृपे क्रूरतराशये ।।६०० ।। कौमारेऽष्टादशाब्दानि, तावन्त्येव च दिग्जये । ततो निष्कण्टकं राज्यं, कल्किनो हि भविष्यति ।।६०१ ।। नन्दस्य सोऽन्यदा स्तूपान्, पञ्च प्रेक्ष्यातिलोलुपः । खानयित्वा च तान् सर्वान्, भूरि स्वर्णं ग्रहीष्यति ।।६०२।। धनाय यावत् सर्वस्मिन्, खन्यमानेऽथ तत्पुरे । गौः पाषाणमयी दैवादुत्थास्यति चतुष्पथे ।।६०३ ।। घट्टयिष्यति सा साधून, व्रजतस्तेन वर्मना । जलोपसर्गमासन्नं, ज्ञास्यन्ति स्थविरास्ततः ।।६०४ ।। ज्ञात्वेति केचिदन्यत्र, विहरिष्यन्ति साधवः । स्थास्यन्त्यन्ये तु तत्रैव, पानानादिषु गृध्नवः ।।६०५।। सर्वे पाखण्डिनोऽन्येयुः, कल्किना याचिता: करम् । ददुर्यथार्थितं तस्मै, ते यस्मात् सपरिग्रहाः ।।६०६ ।। साधवोऽप्यर्थितास्तेनाभ्यधुर्धर्मधना वयम् । धर्मलाभं विना राजन् !, दद्मः किं तेऽन्यदुत्तमम् ? ।।६०७।। पुराणेषूदितं किञ्च, पालयन् व्रतपालकान् । साधूंस्तत्पुण्यषष्ठांशभाजनं भूपतिर्भवेत् ।।६०८ ।।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78