Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् । स्वाम्युवाच गतैः पक्षैर्नवत्या मम निर्वृतः । प्रवर्त्यति तथैकोनैः, पञ्चमो दुष्षमारकः ।।५८७ ।। तथान्ते केवलं भावि, मन्निर्वाणाच्च गौतम ! । द्वादशाब्दास्ततोऽप्यष्टौ, वत्सराणि सुधर्मणः ।।५८८ ।। भावी तस्य विनेयस्तु, जम्बुश्चरमकेवली । वत्सराणि चतुश्चत्वारिंशतं सर्ववित्त्वभृत् ।।५८९ ।। व्युच्छेत्स्यन्त्यत्र चैतानि, दश स्थानानि तद्यथा । आहारकपुलाकाख्ये, द्वे लब्धी परमावधिः ।।५९०।। क्षपकोपशमश्रेण्यौ, मनःपर्यवकेवलौ । संयमत्रिकमन्त्यं च, जिनकल्पमहोदयौ ।।५९१ ।। भाविनः षट् प्रभवाद्याः, श्रुतकेवलिन: क्रमात् । अत्र चान्त्या चतुष्पुर्वी, स्थूलभद्रेऽन्तमेष्यति ।।५९२ ।। महाप्राणं च संस्थानमाद्यसंहननं तथा । मम मोक्षाद् गते वर्षशते सप्ततिसंयुते ।।५९३ ।। महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वज्रपर्यन्ता, भाविनो दशपूर्विणः ।।५९४ ।। दशपूर्व्या व्यवच्छेदस्तुर्यसंहननस्य च । षोडशाब्दोनषड्वर्षशत्या तत्र भविष्यति ।।५९५ ।। दशवर्षशतान्तेऽतो, भावी पूर्वगतस्य तु । क्रमादेकादशाङ्ग्याश्च, समं छेदश्रुतेन तु ।।५९६ ।। पञ्चमासोत्तरेऽप्यष्टाविंशत्यब्दयुतेषु च । मम मोक्षाद् गतेष्वब्दशतेष्वेकोनविंशतौ ।।५९७ ।।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78