Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 61
________________ श्रीश्रेणिकचरित्रम् । समत्सराः करिष्यन्ति, कलहं ते महर्षिभिः । उभयेषामपि तेषां, साम्यं लोके भविष्यति ।।५६७ ।। गीतार्था लिङ्गिनश्च स्युः, साम्येन व्यवहारिणः । जनेन ग्रथिलेनेवाग्रथिलोऽभूद्यथा नृपः ।।५६८ ।।। तथा हि पृथिवीपुर्यां, पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो, निधानं बुद्धिसम्पदः ।।५६९ ।। कालं तेनागमिष्यन्तं, पृष्टोऽन्येयुः सुबुद्धिना । लोकदेवाभिधोऽनेन, नैमित्तिकवरोऽवदत् ।।५७० ।। मासादनन्तरं मेघो, वर्षिता तद्जलं पुनः । य: पास्यति स सर्वोऽपि, ग्रहग्रस्तो भविष्यति ।।५७१ ।। कियत्यपि गते काले, सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति, तत्पयःपानतो जनाः ।।५७२ ।। राज्ञो मन्त्री तदाचख्यौ, राजाऽप्यानकताडनात् । आख्यापयद् जने वारिसंग्रहार्थमथादिशत् ।।५७३ ।। लोकोऽपि हि तथा चक्रे, ववर्षोक्तेऽह्नि चाम्बुदः । कियत्यपि गते काले, संग्रहीताम्बु निष्ठितम् ।।५७४ ।। अक्षीणसंग्रहाम्भस्को, राजामात्यौ तु तो बिना । नवाम्बु लोका: सामन्तप्रमुखाश्च पपुस्ततः ।।५७५ ।। तत्पानाद् 'ग्रथिलाः सर्वे, ननृतृर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमन्त्रिणौ ।।५७६।। १. ग्रहिलाः ।। २. ऽन्यत्र ।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78