Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 59
________________ श्रीश्रेणिकचरित्रम् । विरलाः पालयिष्यन्ति, कुसङ्गेऽपि व्रतं खलु । इदं गजस्वप्नफलं कपिस्वप्नफलं त्वदः । । ५४५ ।। " प्रायः कपिसमा लोलपरिणामाल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते ।। ५४६ ।। , ते विपर्यासयिष्यन्ति, धर्मस्थानितरानपि । भाविनो विरला एव, धर्मोद्योगपराः पुनः ।।५४७।। 7 धर्म्मश्लथेषु ये शिक्षां प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते, ग्राम्यैर्ग्रामस्थपौरवत् । । ५४८ ।। इत्थं प्रवचनावज्ञाऽतः परं हि भविष्यति । प्लवङ्गमस्वप्नफलमिदं जानीहि पार्थिव ! ।।५४९ ।। क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः शासनार्चका: । श्रावकास्ते तु रोट्यन्ते, लिङ्गिभिर्वञ्चनापरैः ।। ५५० ।। तेषां च प्रतिभास्यन्ति, सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया, इवासारमतिस्पृशाम् ।। ५५१ ।। आदास्यन्ते सुविहितविहारक्षेत्रपद्धतिम् । लिङ्गिनो बब्बूलसमाः, क्षीरफलमीदृशम् ।। ५५२ ।। धृष्टस्वभावा मुनयः, प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते नहि गच्छेषु, दीर्घिकाम्भःस्विव द्विकाः । । ५५३ ।। ततोऽन्यगच्छिकैः सूरिप्रभुस्वैर्वञ्चनापरैः । मृगतृष्णानिभैः सार्धं, चलिष्यन्ति जडाशयाः । । ५५४ ।। न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधयिष्यन्ते नितांतं, काकस्वप्नफलं ह्यदः । । ५५५ ।। ५५

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78