Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 33
________________ श्रीश्रेणिकचरित्रम् । स्वयम्भुवे महेशायाच्युताय परमात्मने । प्रद्योतनाय बुद्धाय, श्रीवीरायार्हते नमः ।।२६२ ।। वन्दित्वेति जिनाधीशं, मगधेशो महामनाः । सिंहासनमथास्थायादिक्षत् कौटुम्बिकानिति ।।२६३ ।। सबाह्याभ्यन्तरं सर्वं, भो भो राजगृहं पुरम् । श्रीखण्डघुसृणाम्भोभिः, प्रशान्तीकृतभूतलम् ।।२६४ ।। दशार्धवर्णपुष्पैश्च, सर्वत्र प्रकरीकृतम् । वैजयन्तीयुतकेतुध्वजराजिविराजितम् ।।२६५।। ऊर्वीकृतोच्चमाणिक्यतोरणश्रेणिसुन्दरम् । प्रासादद्वास्थमाङ्गल्यकलशालिसमाकुलम् ।।२६६ ।। विचित्रोल्लोचसच्छोभं, सच्छोभमौक्तिकाङ्कितम् । चित्रकं त्वग्दुकूलाद्यैः, शोभितं हट्टशोभया ।।२६७।। सुगन्धधूपधूम्याभिर्घनोन्नतिविडम्बकम् । स्थाने स्थाने समारब्धदिव्यसङ्गीतकान्वितम् ।।२६८।। कुरुध्वं कारयध्वं च, सर्वमेतद् विशेषतः । येन स्वस्य परस्यापि, भवभेत्री प्रभावना ।।२६९ ।। षड्भिः कुलकम् । इत्याज्ञां नृपतेस्तेऽपि, प्रतिपद्य मुदा क्षणात् । तत्सर्वं साधयामासुः, सुरेन्द्रस्येवाभियोगिकाः ।।२७०।। राजा स्नातानुलिप्तोऽथ, कृतकौतुकमङ्गलः । संवीतदिव्यवासस्को, दिव्याभरणभूषितः ।।२७१।। बन्दिवृन्दजयारावेष्वतुच्छेषूच्छलत्सु च । आरुरोह ततो गन्धसिन्धुरस्कन्धमुर्द्धरम् ।।२७२ ।। युग्मम् ।।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78