Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
३२
शरीरमानसासंख्यदुःखलक्षक्षयंकरी ।
कथं सुधासदृक्षा स्यात्त्वदाज्ञा शिवसौख्यदा ? ।। २९५ ।।
श्रीश्रेणिकचरित्रम् ।
सदोद्योता गतस्नेहा, निश्चला च निरंजना । त्वदाज्ञा जगतामीश !, नव्यदीपायते नृणाम् ।।२९६।। नयसप्तशतीचक्रा, निःशल्या चैककाष्ठिका । त्वदाज्ञा दुर्गमोक्षाध्वन्यपूर्वस्यन्दनायते । । २९७ ।। त्वदाज्ञैकावली चेयं ज्ञानादिवररत्निका । हृत्स्थयाऽपि यया जीवाः, निर्ग्रन्थाः स्युस्तदद्भुतम् । । २९८ ।। कर्म्मारिवीर ! श्रीवीर !, त्वदाज्ञां ये तु कुर्वते । त्रिलोक्यपि करोत्याज्ञां तेषां सौभाग्यशालिनाम् ।। २९९ ।।
देवाधिदेव ! देवेन्द्रवृन्दवन्द्यपदद्वय ! ।
त्वदाज्ञा हृदि मे नित्यमस्तु मेरुरिव स्थिरा ।। ३०० ।। स्तुत्वेति विरते राज्ञि विदधे विरताग्रणीः । देशनां भव्यजन्तूनां, निष्कर्म्मा कर्म्मनाशनीम् ।।३०१।।
अनन्तज्ञानदर्शनवीर्यानन्दमयोऽप्ययम् ।
अनादिकर्म्मसंयोगाद्, दुःखी भ्रान्तश्चिरं भवी ।। ३०२ ।।
ज्ञानादित्रयसंयोगाद्, वियोगो ह्यनयोर्भवेत् । स्वर्णाश्मनोर्यथाऽनादियुक्तयोर्वह्नियोगतः । । ३०३ ।।
तदिदानीमवेत्यैवं, श्रयध्वं तत्त्रयं जनाः ! । लभध्वं शाश्वतं तस्मात्, तदनन्तचतुष्टयम् ।। ३०४ ।।
चमत्कृतः स्वचित्तेन, प्रभोर्देशनयाऽनया । भगवन्तमथो नत्वा, पप्रच्छ श्रेणिको नृपः । । ३०५ ।।

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78