Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
४८
श्रीश्रेणिकचरित्रम् ।
स्वर्णराशिमथोत्तुङ्गं, मेरो: शृङ्गमिवामलम् । वीक्ष्य क्षोणीपतिः प्रोचेऽभयं किमिदमीक्ष्यते ? । । ४६८ ।।
विस्फुरत् कान्तदन्तांशुश्रेणिः श्रेणिकसूर्जगी । ननु कैलाशशैलोऽयं, माङ्गल्यार्थमिहागमत् । । ४६९ ।। राजा जगाद किं कोऽपि त्वयाऽलुट्यत पत्तने ? । अभय: स्माह सर्वत्र, देव ! सम्यग् निरूप्यताम् ।।४७० ।। नृपोऽप्युवाच पर्याप्तं वक्रोक्त्या सुनृतं वद । सोऽप्याख्यात्पिशितं स्वामिन् !, समर्धमिति मन्यताम् ।।४७१।। किं किमेतत् नृपेणोक्ते, सोऽपि सर्वं निवेद्य तत् । ऊचे यतस्ततस्तेन, नोच्यते तात ! धीमता ।। ४७२ ।।
सामन्तादींस्ततः प्रोचेऽभयो भूताभयप्रदः । आकर्णयत तत्रार्थे, सकर्ण्याः ! खलु निर्णयम् ।।४७३ ।। प्राणैः समं यथा भेदं, जानतोऽप्यात्मनः किल । स्वप्राणा दुस्त्यजास्तद्वदन्यस्य सुतरां पुनः ।।४७४ ।। तद् भो अतिमहार्घं हि, स्वमांसं त्रिजगत्यपि । तेऽप्यूचः सत्यमेवैतद्वचस्ते धीतिधेऽभय ! ।। ४७५ । । एवं प्रभावयन्नर्हच्छासनं चण्डशासनः । श्रेणिकोऽभयसंयुक्तश्चिरं साम्राज्यमन्वशात् ||४७६ ।।
अभयं श्रेणिकोऽन्येद्युः प्रोचे राज्यं त्वमाश्रय । श्रीवीरचरणाम्भोजं, श्रयिष्येऽहं द्विरेफवत् ||४७७ ।। पितृभक्तो भवाद् भीरुर्भाविभद्रोऽभयोऽभ्यधात् । यदादिशथ तत् साधु, प्रतीक्षस्व क्षणं पुनः ।।४७८।।
,

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78