Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् । तदापि चित्रमुत्पाद्य, कालक्षेपः करिष्यते । मन्ये मत्कार्यसिद्धिश्च, प्रस्तावेऽत्र भवेद्यदि ।।५०१।। जीर्णां करिकुटीमन्तःपुरपार्धेऽभयस्ततः । ज्वालयामास निर्दग्धः, शुद्धान्त इति घोषयन् ।।५०२ ।। इतश्च श्रेणिकोऽपृच्छत्, समये परमेश्वरम् । एकपत्नी किमनेकपत्नी वा चेल्लणा प्रभो ! ।।५०३ ।। स्वाम्याख्यद् धर्मपत्नीयमेकपत्नी महासती । मा शंकिष्ठास्त्वमस्यास्तद्, वचस्तत्साधुगोचरम् ।।५०४ ।। इदं च श्रेणिकः श्रुत्वा, पश्चात्तापमुपागतः । सपदि स्वामिनं नत्वा, प्रतस्थे स पुरं प्रति ।।५०५ ।। तथा प्रदीपनं कृत्वाऽभ्यायान्तं चाभयं नृपः । अपृच्छदस्मदादेशो, भवता किमनुष्ठितः ? ।।५०६।। अभयोऽप्यभ्यधाद् भीत इव नत्वा कृताञ्जलिः । स्वाम्यादेशोऽपरस्यापि, प्रमाणं किं पुनर्मम ।।५०७ ।। राजा प्रोवाच रे पाप !, दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि ?, किं नापप्तः प्रदीपने ? ।।५०८ ।। स स्माह समयं ज्ञात्वा, यद्येवं देव ! देहि मे । आदेशं यद्विशाम्यद्य, भावाग्नौ दुःखदाहके ।।५०९।। एवमस्त्विति राज्ञोक्ते, स वृत्तान्तमचीकथत् । हृष्टो राजाऽस्य सत्यागूश्चक्रे निष्क्रमणोत्सवम् ।।५१०।। ततः श्रीवीरपादान्ते, नान्देयो नन्दया सह । प्रव्रज्यां परिजग्राह, सुधीः स्वार्थाय सत्वरः ।।५११।।

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78