Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 50
________________ श्रीश्रेणिकचरित्रम् । अभयोऽप्यभ्यधादेकं, दिवसं स्थीयतां प्रभो ! ।। निवर्तेत न चेदेष, न स्थातव्यं ततः परम् ।।४४६।। एवमस्त्विति सूर्युक्तोऽभयोऽथैत्य नृपाङ्गणे । रत्नकोटित्रयीं कृष्ट्वा, राशित्रयमकारयत् ।।४४७ ।। तुष्टो राजा ददात्युच्चै रत्नकोटित्रयीं जनाः ! । गृह्णीतैनां यथेष्टं तु, पटहेनेत्यघोषयत् ।।४४८ ।। ततोऽमिलद् द्रुतं लोको, लोलुभः सोऽभयेन तु । बभाषे गृह्यतामेषा, रत्नकोटित्रयी मुधा ।।४४९ ।। युष्माभिः स्वगृहे गत्वाऽनया किन्तु गृहीतया । यावज्जीवं विमोक्तव्यं, जलमग्निः स्त्रियस्तथा ।।४५० ।। इत्याकर्ण्य जनास्तूर्णमुत्कर्णास्तजिघृक्षवः । बिभ्यतो निश्चलास्तस्थुः, सिंहनादं मृगा इव ।।४५१।। अभयोऽप्यभ्यधात् कस्माद्, विलम्बस्तेऽप्यदोऽवदन् । लोकोत्तरमिदं लोकः, किं कश्चित्कर्तुमीश्वरः ? ।।४५२।। सोऽवदन् मुनिना तेन, त्रीण्यप्येतानि तत्यजे । तत् कुतो हसतैवं तमतिदुष्करकारकम् ।।४५३ ।। न जानीमो वयं स्वामिस्तस्यर्षेः सत्त्वमीदृशम् । तमृषि मर्षयिष्यामस्तदिदानी महामते ! ।।४५४ ।। अभयेन समं गत्वा, श्रीमन्तस्ते प्रणम्य तम् ।। महर्षि क्षमयामासुः, स्वापराधं मुहुर्मुहुः ।।४५५।। सभासीनोऽन्यदा राजा, जगादास्मिन् पुरे जनाः ! । साम्प्रतं सर्वपण्येभ्यः, समर्घं किमु लभ्यते ? ।।४५६।।

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78