Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 44
________________ ४० श्रीश्रेणिकचरित्रम् । प्रभुः प्राह दृढं बद्धं, पुराऽऽयुर्नरके त्वया । अस्माभिरपि तत्कर्म्म, नान्यथा कर्तुमीश्यते ।। ३८३ ।। किन्तु तस्मात् समुद्धृत्य भाविन्यामर्हतामिह । चतुर्विंशतिकायां त्वं प्रथमस्तीर्थनायकः || ३८४ ।। पद्मनाभाभिधस्तुल्यो, मानघर्णादिना मम । भावी भवान्तकृद्राजन् ! विषादं तेन मा कृथाः ।। ३८५ । । युग्मम् ।। श्रुत्वेति श्रुतिपीयूषपूरकल्पं ततोऽभवत् ! हर्षप्रकर्षादुत्फुल्लपङ्कजाः क्षितीश्वरः । । ३८६ ।। प्रभुं प्रणम्य भूयोऽपि, पप्रच्छ स्वच्छधीरसौ । उपाय: कश्चिदस्तीश !, न यायां येन तां गतिम् ।।३८७ ।। स्वाम्यूचे कपिला भिक्षां, साधुभ्यो दाप्यते त्वया । त्याज्यते शौनिकोऽयं चेच्छूना श्वभ्रे गतिर्न ते ।।३८८ ।। इन्यस्तशंसयो वीरं, प्रणम्य स्वपुरं प्रति । प्राचालीदचलानाथो, राजन् राज्यश्रिया तया ।।३८९।। दर्दुराङ्कः स देवोऽथ विशामीशं परीक्षितुम् । सम्यक्त्वं निश्चलं नेति विचक्रे विक्रियामिमाम् ।। ३९० ।। आनायेन मुनिर्मीनानाकर्षन्नृपतेर्नदात् । तेनादर्शि यथाऽन्यस्य, पृथग् धर्मान्मनो भवेत् ।। ३९१ ।। नृपस्तु निश्चलो धर्मे, तं निवार्य पुरे ययौ । आसन्नप्रसवा साध्वी, पुनर्देवेन दर्शिता । । ३९२ । । संगोप्यैनां स्वयं राजाऽरक्षत् शासनलाघवम् । त्रिलोक्याऽपि न चाल्योऽयं, नाकिनेति सुनिश्चितम् ।। ३९३ ।।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78