Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
श्रीश्रेणिकचरित्रम् |
अहो अंहःसमूहस्य, कीदृशं हन्त दृश्यते । विजृम्भितं भवेऽत्रापि, सुलसो ध्यायतीत्यथ ।।४१३ ।।
कालसौकरिको मृत्वा सप्तम्यां नरकावनौ ।
•
नारकः सोऽप्रतिष्ठानेऽजायतोत्कृष्टदुःखभाक् ।।४१४ ।।
सुलसश्चान्यदा प्रोचे, स्वजनैर्जीविकाकृते ।
त्वयाऽधिष्ठीयतां मङ्क्षु, क्रमायातं पितुः पदम् ।।४१५।।
सोऽवादीन् न ग्रहीष्येऽदः, पदमत्युग्रपापकृत् । चक्षुष्मान् जीविताकाङ्क्षी, कोऽपि कूपे पतेत् किमु ? ।।४१६ ।।
मम पित्राऽनुभूतं यद्विस्मृतं तद् द्रुतं ननु । दृष्ट्वैतदपि यत् पापाद्, युष्माभिर्न विरम्यते ।।४१७ ।।
खाद्यखादकतैवात्र न पापमिति तेऽभ्यधुः । सुलसः स्माह तन्मृत्योर्बिभीयेत किमात्मभि: ? ।।४१८ ।।
यथाऽऽत्मनः प्रियाः प्राणास्तथाऽन्यस्य विन्निति । आत्मनीनो जनो हन्यात् कथं जीवान् सुखप्रियान् ? ।।४१९ ।।
स्वार्थेकनिष्ठास्ते प्रोचुर्यत् स्यात् ते पापमत्र तत् |
वयमेव ग्रहीष्यामः, संविभज्य पृथक् पृथक् ।।४२०।।
४ ३
किञ्चैकमहिषस्कन्धं, छिंद्यास्त्वं शितपर्शुना । छेत्स्यामो वयमन्येषां तत्तेऽहोऽपि न तादृशम् ।।४२१।। सुलसोऽपि निजान् बोद्धुं, बुद्धिधाम निजक्रमम् । अकुण्ठेन कुठारेण, निजघान सुनिष्ठुरम् ।।४२२ ।।
क्षणात्तस्य क्षते तत्र, व्यथाऽत्यर्थमभूदथ । सोऽवोचत्तान् विभज्येमां, गृह्णीत स्नेहलालसाः ।। ४२३ ।।

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78