Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 43
________________ ३९ श्रीश्रेणिकचरित्रम् । अस्मदागमनं श्रुत्वा, भेकोऽम्भोहारिणीमुखात् । ऊहापोहं वितन्वानो, जातिस्मरणमाप सः ।।३७२ ।। अचिन्तयत् स भेकः प्राक्, द्वारे द्वा:स्थो विमुच्य माम् । ययौ यं वन्दितुं वीरं, स आगाद् भगवानिह ।।३७३।। तं नत्वा तद्गिरः श्रुत्वा, ग्रहीष्ये जन्मनः फलम् । ततो मां वन्दितुं भक्त्योत्प्लुत्योत्प्लुत्य चचाल सः ।।३७४ ।। पथ्यागच्छंस्त्वदधेन, खुरेणाक्रम्य मारितः । दर्दुराकेषु देवेषु, महर्टिस्रिदशोऽभवत् ।।३७५।। बिडौजसाऽन्यदा राजन्नाचचक्षे स्वपर्षदि । श्रेणिको नैव चाल्येत, जिनभक्तेः सुरैरपि ।।३७६ ।। तदश्रद्धालुस्तत्रागात्, स देवः कुष्ठिरूपभृत् । गोशीर्षेण ममासिञ्चच्चरणौ रसिका न सा ।।३७७ ।। राज्ञा पृष्टो म्रियस्वेत्याद्यर्थं प्रभुरथावदत् । अर्हन्मृत्वा शिवं गच्छ, म्रियस्वेति शुभं ह्यदः ।।३७८ ।। त्वं च जीवन सुखेनासि, मृतस्तु नरकं गमी । जीवन सुखी मृतः स्वर्ग, गमीत्युक्तो द्विधाऽभयः ।।३७९ ।। कालशौकरिकस्त्वेष, जीवन् पापपरायणः । मृतः श्वभ्रं गमी तेन, द्विधाऽपि प्रतिषेधितः ।।३८०।। मृतस्त्वं नरके याता, सर्वज्ञोक्तमिदं वचः । आकर्ण्य कर्णकटुकं, बभाषे भूपतिः प्रभुम् ।।३८१ ।। भवत्सु विश्वविश्वस्य, शिवतातिषु सत्स्वपि । स्वामिन्नस्वामिकस्येव, कथं मे गतिरीदृशी ? ।।३८२।।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78