Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 24
________________ श्रीश्रेणिकचरित्रम् । २० भूर्जलं जलजा जीवास्त्रसा भूम्याश्रिता अपि । संख्यातीता विराध्यन्ते, स्नानाय भवतामपि । । १६४ ।। मृत्तिकोदकसंस्पर्शाच्छुध्यन्ति यदि जन्तवः । कुलालः सकुटुम्बोऽपि, तर्हि स्वर्गं व्रजिष्यति । । १६५ ।। चेत् शुध्यन्ति बहिःस्नानादन्तः पापमलीमसाः । तत् शुध्यन्ति ध्रुवं मत्स्यमकराद्या हृदादिषु ।।१६६।। मुग्धे ! पञ्चाश्रवत्यागात्, पञ्चेन्द्रियदमादपि । कषायविजयाद् धर्म्मस्तथा दण्डत्रयोज्झनात् । । १६७।। इत्यादियुक्तियुक्ताभिर्भारतीभिर्निरुत्तराम् । सुज्येष्ठा तापसीं चक्रे, मौनव्रतपरामिव ।। १६८ ।। दास्यादयो हसन्त्यस्तां, मुखमर्कटिकादिभिः । गेहान्निःसारयन्ति स्म, भिक्षुकीं ग्रथिलामिव ।।१६९।। सुज्येष्ठोपरि सा क्रुद्धा दध्यौ दुधरिमां ध्रुवम् । क्षेप्स्यामि पण्डितंमन्यां, सपत्नीदुःखसागरे ।1 १७० ।। आलिख्य चित्रपट्टे च तद्रूपं श्रेणिकाय सा । उपनिन्ये स तां वीक्ष्यापृच्छत् केयं वराकृति: ? ।।१७१ ।। साSSख्यच्चेटकराजस्य, सुज्येष्ठानामिका सुता । इमा लक्ष्मीपतिर्लक्ष्मीमिवोद्वोढुं त्वमर्हसि ।।१७२ ।। ततस्तां याचितुं प्रैषीद्वैशाल्यां श्रेणिको नरान् । सुज्येष्ठां याचितः पुम्भिश्चेटकोऽप्येवमब्रवीत् ।।१७३ ।। कथं वाहीकवंश्योऽयं, कन्यां हैहयवंशजाम् । स्वीकर्तुं श्रेणिको वाञ्छेद् बको हंसीमिवामतिः ? । । १७४ । ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78