Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust

View full book text
Previous | Next

Page 18
________________ १४ किं त्विदानीमसत्कार्यो, मार्यो माऽन्यैरसौ सुतैः । इत्यन्येषां कुमाराणां ददौ ग्रामादिकं नृपः ।। ९८ ।। श्रेणिकस्त्वपमानेन तेन देशान्तरं प्रति । प्राचालीदचलो भीत्या, केसरीव वनान्तरम् ।। ९९ ।। जगामाश्रान्तमभ्रान्तः, खड्गव्यग्रकरोऽध्वनि । क्रीडां कर्तुमिवोद्यानमार्गेऽनघप्रमोदभाक् ।। १०० ।। गच्छन् क्रमेण स प्राप पुरं बेन्नातटाभिधम् । यच्छ्रीकल्लोलमालाभिर्वेलातटमिवाबभौ ।।१०१ ।। भद्रस्य वणिजस्तत्र, विपणौ स पणायतः । कर्म्म लाभोदयं नाम, तस्य मूर्त्तमिवाययौ ।। १०२।। दिने तस्मिंश्च तत्राभूद्विशिष्टः कश्चिदुत्सव: । ततस्तच्छ्रेष्ठिनो हट्टे क्रेतुमागाज्जनो बहुः ||१०३ ।। श्रेणिको लघुहस्तत्वाद्, बद्ध्वा बद्ध्वाऽऽर्पयद् द्रुतम् । क्रायकाणां वरद्रव्यपुटिकात्रुटिकादिकम् ।।१०४ ।। श्रीश्रेणिकचरित्रम् । लाभश्च तत्प्रभावेण भूयिष्ठः श्रेष्ठिनोऽभवत् । कस्याद्यातिथयो यूयं ततः श्रेष्ठी तमभ्यघात् ।। १०५।। श्रेणिकोऽपि बभाषे वः, ततोऽसौ पर्यचिन्तयत् । नन्दायोग्यो वरः स्वप्ने, यो मयाऽद्यैक्षि सैष किम् ? ।। १०६ ।। ततः श्रेष्ठी निजौकस्तं नीत्वा संस्नाप्य चादरात् । परिधाप्य सुवासांसि भोजयित्वैवमब्रवीत् ।। १०७ ।। नन्दानाम्नीं सुतां मे त्वमिमामुद्वह मानद ! । स प्राह कथमज्ञातकुलादेर्मम दास्यसि ? ।। १०८ ।। "

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78