Book Title: Shrenik Charitram
Author(s): Rajdarshanvijay
Publisher: Ratnoday Charitable Trust
View full book text
________________
१३
श्रीश्रेणिकचरित्रम् । ततश्चाघोषयामास, पुरे राजेति यद्गृहात् । उत्थास्यत्यनलः सोऽस्मात्, पुरान्निष्कासयिष्यते ।।८७।। अन्येधुर्मेदिनीभर्तृहे सूदप्रमादतः । जज्ञे प्रदीपनं ह्यग्निर्यमश्च स्वो न कस्यचित् ।।८८।। राज्ञा पुत्राः समाविष्टा, यो यद् गृह्णाति तस्य तत् । ततस्ते निर्ययुः शीघ्रं, गृहीत्वाऽश्वगजादिकम् ।।८९ ।। श्रेणिकस्तु समादाय, जयभम्भां विनिर्ययौ । युक्तिमत्राह पृष्टोऽसौ, राज्ञा शान्ते प्रदीपने ।।१०।। एषैव देव ! भूपानां, जयश्रीचिह्नमादिमम् । यत्नेन तेन रक्ष्येयं, नित्यं जीवितवन्नृपैः ।।९१ ।। इत्याकर्ण्य वचस्तस्य, श्रेणिकस्य ददौ मुदा । भम्भासार इति क्षोणिपतिर्नामापरं तदा ।।९२ ।। सस्मार च वचः स्वीयं, सत्यसंधः प्रसेनजित् । ततः पुराद् द्विगव्यूत्या, स्वस्मै गृहमकारयत् ।।१३।। सान्त:पुरपरीवारस्तत्रोवास स्वयं नृपः । व्यवहर्तुं जनोऽप्यत्र, यानायान् प्रश्नितोऽवदत् ।।९४ ।। यामि राजगृहं राजगृहादायामि चेति तत् । जज्ञे चैत्यादिना रम्यं, नाम्ना राजगृहं पुरम् ।।९५।। पुत्रपौत्रयुतो राज्यं, कुर्वंस्तत्र महीपतिः । ज्ञातपूर्वी स्वतुग्वृत्तं, चिन्तयामास चेतसि ।।१६।। स्वराज्यं भोक्ष्यते तावद्, विक्रमेण धिया त्वयम् । अन्येषामपि राज्यानि, राज्यार्हः श्रेणिकस्ततः ।।१७।।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78