Book Title: Shrenik Charitram Author(s): Rajdarshanvijay Publisher: Ratnoday Charitable Trust View full book textPage 7
________________ ॥ शिवमस्तु सर्वजगतः ॥ श्रीवीरः परमपरमेष्ठी श्रेणिकनृपस्तस्य परमभक्तः । यस्य सम्यक्त्व दार्द्धं देवा अपि परीक्षन्ते । तस्येयं कथा । कथेयं संक्षिप्ता किन्तु कामधूरेव मधुरा, सरला भाषा तथापि नूतना शब्दाः, भावस्तु सर्वरसप्रधानः । श्रेणिकनृपतेः जीवनसंबद्धा सर्वा प्रायः घटना संक्षेपतोऽत्र वर्णिता । तथा प्रभुवीरपरमात्मनो निर्वाणस्य पश्चात्-अत्रस्थजीवानां भावि जीवनम् । केषांचित् पदार्थानाम् अन्तः, कल्कीनृपतेः प्रबन्धः, षष्ठाऽऽरकस्य वर्णनम्, अवसर्पिण्या अन्तः, उत्सर्पिण्याश्च प्रारम्भः सप्त कुलकराः, श्रेणिकभूपतेः जीवस्य श्रीपद्मनाभाभिधानेन प्रथमतीर्थकृत्तयोत्पत्तिः, अन्येषां च त्रयोविंशतितीर्थकृतां नामानि तथा पूर्वभवाः इत्यनेका प्रसङ्गा विशदतया वर्णिता:, ते बालजीवानां विदुषां च समानतया चित्तमाकर्षन्ति । , भाषायास्तिलकभूतानि सूक्तानि तु मनोहराणि एव, यथा "गूर्जरगिरायां " "आजमां अंडरानी प्रेम जूंये छे” इति कथितकं (- कहेवत) वर्तते - अत्र तदेव तु 'बाधतेऽर्हनिशं यद् वा चक्षुषोः कर्करो' यथा (५०) इत्यादि तथा श्रेणिक शब्दस्य निरुक्तमपि निरुपमं विद्यते यथा विशिष्ट धृत्यादि गुणश्रेणिकृदित्ययम् । ततः श्रेणिक इत्याख्यां पिता तस्य स्वयं व्यधात् ॥ ४५ ॥ काव्ये क्वेः कल्पनावैभवो हि काव्यं नयन- मनोरसायणं भवतिअतः पठ्यताम् - चिच्छिदेऽरितमः स्वस्य प्रतापतपनांशुभिः (३)Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 78