Book Title: Savchurikam Bhashyatraya Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 8
________________ चै.वं. भाष्यं ॥ ८ ॥ अनंतरिअंगुलिकोसागारेहिं दोहिँ हत्थेहिं । पिट्टोवरि कुप्परसंठिए हिँ तह जोगमुद्दति ॥ १५ ॥ उभयकरजोडनेन परस्परमध्यप्रविष्टाङ्गुलिभिः कृत्वा पद्मकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यां तथोदरस्योपरि कुहणिकया व्यवस्थिताभ्यां योगो हस्तयोर्योजन विशेषस्तत्प्रधाना मुद्रा योगमुद्रा भवतीति गम्यम् ॥ १५ ॥ चत्तारि अंगुलाई, पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥ १६ ॥ अङ्गुलानि स्वकीयान्येव पादयोरुत्सर्गः परस्परसंसर्गत्यागोऽन्तरमित्यर्थः । जिनानां कृतकायोत्सर्गाणां सत्का, जिना वा विभजेत्री मुद्रा जिनमुद्रा ॥ १६ ॥ मुत्तासुत्तीमुद्दा, जत्थ समा दोवि गब्भिआ हत्था । ते पुण निडालदेशे, लग्गा अन्ने अलग्गति ॥१७॥ मुक्ताशुक्तिरिव मुद्रां हस्तविन्यासविशेषात्मिका मुक्ताशुक्तिमुद्रा, यस्यां 'समौ' नान्योन्यान्तरिताद्यङ्गुलितया विषमौ 'द्वापि' न तु मुकुटाञ्जलिमुद्रयोरिव कदाचिदेकोऽपि गर्भिताविव गर्भितौ उन्नतमध्यौ न तु नीरन्ध्रौ चिपिटावित्यर्थः । हस्तौ करौ स्याताम् । तौ पुनरुभयतोऽपि सोल्लासौ करौ भालस्थलमध्यभागे लग्नौ कृत्वा पश्चाद्विधिना प्रणिधत्ते इत्येके । अन्ये पुनस्तत्रालग्नानित्येवं वदन्ति । नेत्रमध्यभागवकाशगतावेव भ्रमयित्वा अन्यथा वा यथान्नायं पुरुषस्त्रिया वाश्रित्य समाधेयम् ॥ १७ ॥ 1 क-ध- 'साङ्गुलितया' । 2 'पुरुषेण' इति भवेत् परं तथा कापि न लभ्यते ॥ सावचूरि० ॥ ८ ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72