Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 54
________________ प्र. भाष्यं ॥ ५४ ॥ 'पोरिसिअं साढपोरिसिअं पञ्चवखामि उग्गए सूरे चउबिहंपि आहारं ' इति २ । पुरिमार्जे 'सूरे उग्गए पुरिमनुं पञ्चक्खामिइति ३ । उपवासे तु 'सूरे उग्गए अभत्तङ्कं पञ्चक्खामि इत्यादि ४ ॥ ४ ॥ अत्र च प्रत्याख्यानस्य कारयिता गुरुः 'पच्च' क्खाइ' इति भणति । कर्त्ता पुनः शिष्यः 'पञ्चक्खामि' इति भणति । एवं गुरुशिष्यावाश्रित्य 'वोसिरइ वोसिरामि' इत्यपि ज्ञेयम् । अत्र प्रत्याख्यानकरणे उपयोगो मानसगतप्रत्याख्यानरूपो भाव एव प्रमाणं, व्यञ्जनच्छलनाक्षरस्खलना विस्मृत्याsन्यथोच्चाररूपा न प्रमाणम् ॥ ५ ॥ अथ प्रत्याख्यानस्यैवोच्चारविषयं विशेषविधिमाह पढमे ठाणे तेरस, बीए तिन्नि उ तिगाइ तइयंमि । पाणस्स चउत्थंमी, देसवगासाइ पंचमए ॥ ६ ॥ एकाशनादिप्रत्याख्यानेषु प्रथमे स्थाने 'नमुक्कारसहियं पोरिसिअं' इत्यादि त्रयोदश प्रकारा भवन्ति । द्वितीये स्थाने त्रयः । तृतीये त्रिकादयः । चतुर्थे 'पाणस्स' इत्येकः । पञ्चमेऽपि 'देसावगास' इत्याद्येकः ॥ ६ ॥ तानेव त्रयोदशादीन् प्रकारान् व्यक्त्याह नमु पोरिसि सड्डा पुरिमवड अंगुट्ट माइ अड तेर । निवि विगईबिल तिय तिय, दु इगा सण एगठाणाई ॥७॥ प्रथमस्थाने नमस्कारसहितम् । तथा पौरुषी सार्धपौरुषी पुरिमार्धोऽपार्थोऽङ्गुष्ठसहिताद्यष्टकं च कर्त्तव्यं भवति । आदिशब्दान्मुष्टिग्रन्थिगृहस्वेदोच्छ्रासस्ति बुकज्योतिः सहितादि ज्ञेयम् । एतेषामर्थश्चायम् - पूर्णेऽपि पौरुष्यादिप्रत्याख्याने साधुः श्रावको वा यावन्न भुङ्क्ते तावत्किञ्चिच्चिह्नमभिगृह्णाति, न युज्यतेऽप्रत्याख्यानिनः स्थातुमिति । ततोऽङ्गुष्ठं यावन्न मुञ्चामि, यांद्वा 1 क-च- 'इति' । 2 क - ख - 'यावइन्थि मुष्टिं वा ॥ साव वूरि० ॥ ५४ ॥

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72