Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्र. भाष्यं ॥ ५७ ॥
यदेकाङ्गिकं क्षुधाप्रशमक्षमं भवति । 'वा' चार्थे । यच्च लवणादिकमाहारे एति प्रविशति, स्वादं वा यद्ददाति, क्षुधितो सावचूरि• वा यत्पङ्कोपममपि कोष्ठे उदरे क्षिपति, तत्सर्वं सामान्यत आहार उच्यते ॥ १३ ॥ अथाशनादिविशेषमाहअसणे मुग्गोअणसत्तमंडपयखज्जरबकंदाई | पाणे कंजियजवकयरकक्कडोदग सुराइजलं ॥ १४ ॥ खाइमि भत्तोसफलाइ साइमे सुंठिजीरअजमाई । महुगुलतंबोलाई, अणहारे मोअनिंबाई ॥ १५ ॥
मुद्र इति उपलक्षणात्सर्वं द्विदलं, तथौदनानि सक्तुमण्डक दुग्धखाद्यरचाकन्दादि च सर्वमशनेऽन्तर्भवति । खाद्यशब्देनेह पक्वान्नादि गृह्यते । पानके तु कालिकयवकरीर कर्कव्यादिधावनोदकं सुरादिजलं चान्तर्भवति । आदिशब्दाद्राक्षापानादि च । तत्र सुराजलमभक्ष्यत्वादपेयमिति स्वयं ज्ञेयम् ॥ १४ ॥ खादिमे 'भत्तोस' इति सुखादिका सर्वफलादि च गृह्यते । स्वादिमै तु शुण्ठीजीरकाजमादि मधुगुडताम्बूलादि चान्तर्भवति । अत्रापि मध्वाद्यभक्ष्यत्वान्न ग्राह्यमिति स्वयं ज्ञेयम् । अत्र च द्राक्षापानादि पानके, गुडादि स्वादिमे चोक्तमप्याचरणातोऽधुना न गृह्यते । मोकं मूत्रं निम्बशलिकापत्रादि; आदिशब्दात्रिफलापञ्चमूलादि चानाहारेऽन्तर्भवति ॥ १५ ॥ अथ चतुर्थमाकार द्वारमाह
दो नवकारि छ पोरिसि, सग पुरिमड्ढे इगासणे अट्ठ । सत्तेगठाणि अंबिलि, अट्ठ पण चउत्थि छ प्पाणे ॥ १६ ॥ द्वावाकारौ नमस्कारसहिते 'अन्नत्थणा भोगेणं १ सहसागारेणं २' इति । अत्र मुहूर्तप्रमाणत्वमल्पाकारत्वादेव लभ्यते,
1 अ - क - 'खाइ मे' । घ - 'खाइम' । 2 अ - 'सुरादि । आदिशब्दाद्राक्षापानादि जलं चान्तर्भवति । 3 च- 'आदिशब्दाद्राक्षादिजलम्' । घ - सर्वथा नास्ति ॥
॥ ५७ ॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72