Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्र.भाष्यं
॥६२॥
RASAIRA%A9%AR
|धिगृहीतादिभङ्गत्रये न कल्पते) यतीनामेवायं भवति ११ । तथा प्रावरणप्रत्याख्याने कटिपटश्चोलपट्टस्तदाकारोऽपि यती- सावचूरि० नामेव १२॥ २६ ॥ दींभाजनादेरकल्पनीयेन विकृतितेमनादिना खरण्टितत्वं लेपः, लूहितत्वं चालेपो लेपालेपः तस्मादन्यत्र भाजनादौ लूहितेऽपि किञ्चिद्विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः १३ । गृहस्थस्य भक्तदायकस्य संबन्धि कृतं विकृतमिश्र डुच्चकैरम्भादि गृहस्थसंसृष्टं तच्च निर्विकृतिप्रत्याख्याने कल्पते, किञ्चिन्मात्राज्यतैलस्निग्धहस्ततलकृतं मण्डकादि त्वाचाम्लप्रत्याख्यानेऽपि कल्पत इत्यर्थः, प्रायः साधूनामेवायम् १४ । पूर्वोक्तपिण्डविकृतीनां पूपिकाद्युपरिस्थानामुक्षिप्तानामुद्वत्तानां विवेको निःशेषतया त्याग उत्क्षिप्तविवेकः, तत्र यदुत्क्षेप्तुं न शक्यं तस्य भोजनेन भङ्गः॥ १५॥प्रतीत्य सर्वथा रुक्ष मण्डकादिकमपेक्ष्य मनागङ्गलीभिर्मक्षितं स्नेहितमीपत्सौकुमार्योत्पादनान्म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावान्म्रक्षितमिव । अत्र धारया मेक्षितं न कल्पते, अङ्गल्या मनाग्म्रक्षितं तु कल्पते (लहुचुईप्रमुख) इत्यर्थः १६ ॥२७॥ लेपकृतं जलमायामादि, आदिशब्दाद्राक्षाचाम्लिकापानकादिग्रहः १७ । इतरदलेपकृतं सौवीरादि, आदिशब्दादपिच्छिलं जरत्पानीयादि गृह्यते १८ । अच्छमुष्णजलमुत्कालिकमन्यदपि निर्मलम् १९ । बहुलं तण्डुलधावनादि गडुलम् २० । ससि. क्थमुत्स्वेदिमादि, उत्स्वेदिमशब्देन पिष्टजलं पिष्टादिभृतहस्तादिक्षालनजलं चोच्यते २१ । इतरदसिक्थं तदेव वस्त्रादिना 8 गलितम् २२ । अत्र 'वा' शब्दो विशेषद्योतनार्थः । स चायमलेपकृतेनेव लेपकृतेनापि अच्छेनेव बहुलेनापि असिक्थेनेव ॥६२॥ ससिक्थेनापि उपवासादेर्न भङ्ग इति भावः । एवमपुनरुक्त २२ आकारव्याख्यानम् ॥२८॥ __1 घ-च-'करम्बादि' ॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72