________________
प्र.भाष्यं 8 कौतिकं माक्षिक भ्रामरं चेति मधु त्रिधा । काष्ठं ताडेक्षुद्राक्षामधूकादिनिष्पन्नं, पैष्टं च कुथितधान्यादिकृतमिति मद्यं सावरि०
द्विधा । जलस्थलखचरसंबन्धिभेदान्मांसं त्रिधा । घृतवद्गोमहिष्यजैडकानां रक्षणं चतुर्धा । एता अभक्ष्यविकृतयः॥४१॥ ॥६८॥
____ अथ सप्तमद्वारे द्विधा प्रत्याख्यानभङ्गानाहमण १ वयण २ काय ३ मणवय ४, मणतणु ५ वयतणु ६ तिजोगि ७ सग सत्त।
करकारणुमइ ३ दु ६ ति ७ जुइ, तिकालि सीयालभंगसयं ॥ ४२ ॥ एअंच उत्तकाले, सयं च मणवयतणूहिँ पालणियं । जाणगजाणगपासत्ति भंगचउगे तिसुअणुन्ना ॥४३॥ | प्राणातिपातादि न करोति मनसा १, वाचा २, कायेन वा ३, मनसा वाचा ४, मनसा कायेन ५, वाचा कायेन वा ६, मनसा वाचा कायेन च ७ । एते सप्तापि भङ्गाः करणेन लब्धाः १, एवं कारणेन २, एवमनुमत्या ३, करणकारणाभ्यां |४, करणानुमतिभ्यां ५, कारणानुमतिभ्यां ६, करणकारणानुमतिभिरपि च ७ सप्त भङ्गा लभ्यन्ते । एवमेते सप्त सप्तका
भङ्गानामेकोनपञ्चाशद्भवति । एषां त्रिकालविषयता चातीतस्य निन्दया, सांप्रतिकस्य संवरणेन, अनागतस्य प्रत्याख्यादानेन, एवमेकोनपञ्चाशत्कालत्रयगुणिताः सप्तचत्वारिंशदधिकं शतं भवति ॥ ४२ ॥ एतच्च पौरुष्यादिप्रत्याख्यानमुक्तकाले|3||
प्रहरादिरूपे मनोवचःकायैः पालनीयम् । अत्राह परः-यथा प्राणातिपाते प्रत्याख्याते सत्यसौ न कारयत्यन्यैर्जीवघातं प्रत्याख्यानभङ्गभयात्, तथात्रापि कृतप्रत्याख्यानस्यान्यस्मै अशनादि दातुं न युज्यते इति, उच्यते-नात्र करणकारणानुमतिभिर्मनोवाकाययोगत्रयेण प्रत्याख्यानकर्ताऽशनादि प्रत्याचष्टे, विरतिपालनाच्च वैयावृत्त्यं प्रधानतरमतः कृतप्रत्याख्या
SAORADAMSAMRODAMAMA
SAUSAASHISH