Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
S
प्र. भाष्यं
सावचूरि०
. अथ 'गिहत्यसंसडेणं' इत्याकारानिर्विकृतिकप्रत्याख्यानेऽपि कल्पनीयानि संसृष्टान्याहदुद्धदही चउरंगुल, दवगुलघयतिल्ल एगभत्तुवरि । पिंडगुडमक्खणाणं, अद्दामलयं च संसह ॥ ३६॥
दुग्धेन मिश्रितः कूरो यदि लभ्यते तत्रौदनाच्चत्वारि अङ्गुलान्युपरि यदि दुग्धं चटितं तावत्तसंसृष्टमुच्यते, तच्च तन्निविकृतिकस्य कल्पते, पञ्चमाङ्गुलारम्भे तु न कल्पते । एवं दन्नोऽपि ज्ञेयम् । द्रवगुडघृततैलानां संसृष्टं भक्तोपरि चटितानामेकमङ्गलं यावज्ज्ञेयं, द्वितीयाङ्गलारम्भे तु विकृतिरेव । पिण्डगुडघक्षणयोरा मलकप्रमाणं खण्डं संसृष्टम् । आर्द्रामलकशब्देनेह शिणपीलुवृक्षसंबन्धी मुकुरो विवक्षितः। यदि बहून्यप्येतत्प्रमाणानि खण्डानि तदा कल्पन्ते । एकमपि वृद्धं न कल्पत इत्यर्थः॥ ३६॥ निर्विकृतिकप्रकारं सामान्यत आहदवहया विगई विगइगये पुणो तेण तं हयं दत्वं । उद्धरिए तत्तंमि य, उकिट्ठदवं इमं चन्ने ॥ ३७॥
द्रव्यैः कलमशालितण्डुलादिभिर्हता भिन्ना सती विकृतिः क्षीरादिका विकृतिगतमित्युच्यते, तेन पुनः कारणेन तण्डुलादिहतं तत् क्षीरादिकं द्रव्यमेव । तथा पाकभाजनात्सुकुमारिकादावुद्धृते सति पश्चादुद्धरितं यद्धतादि तस्मिन् चुल्लीत उत्तारिते शीते च जाते यदि कणिक्वादि प्रक्षिप्यते तदैव विकृतिगतमुत्कृष्टद्रव्यमिदं चाहुरन्ये । अत्र पाठान्तरम्-"दबहया विगइगयं विगई पुण तीइ तं हयं दवं । उद्ध०उक्कि०"-तत्रेयं व्याख्या-द्रव्यहता विकृतिर्विकृतिगतं स्यात्, क्षीरान्नवत्। विकृतिः पुनर्भवति तया विकृत्या तद्रव्यं हतं सन्मोदकवत्। उद्धृते घाणत्रिकोपरि तस्मिन् तप्ते घृते यत्पच्यते तत्पूपादिकं |
1 अ-क-घ-'य' । 2 अ-क-घ-'दव्व' । ३ ख-ग-'इदं नास्ति ॥ .
GACAAAAAMAR
+

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72