Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्र. भाष्य
॥ ७० ॥
ख्यानं यत्र जिनकल्पादौ कर्त्तव्यं भवति तत्सर्वं जानातीति ज्ञानशुद्धिः २ । गुरोः सम्यग् वन्दनदानपूर्वं यक्रियते, एषाविनयशुद्धिः ३ । प्रत्याख्यानं कुर्वन्नक्षरपदव्यञ्जनैः परिशुद्धं गुरुवचनमनुभाषते लघुतरेण शब्देन भणतीत्यर्थः, एषाऽनुभाषणाशुद्धिः ४ । यद्विषमे संकटेऽप्यापतिते न भग्नं सम्यक् पालितं एषाऽनुपालनाशुद्धिः ५ । इहपरलोकाद्याशंसादिलक्षणेन कलुषपरिणामेन न दूषितं भवत्येषा भावशुद्धिः ६ ॥ ४६ ॥
अथ नवमं फलद्वारमाह
पच्चक्खाणस्स फलं, इहपरलोए य होइ दुविहं तु । इहलोइ धम्मिलाई दामन्नगमाइ परलोए ॥ ४७ ॥
प्रत्याख्यानस्य फलमिहलोकपरलोकसंबन्धित्वेन द्विधा भवति । तत्रेहलोकफले धम्मिलादय उदाहरणम् । परलोकफले तु दामन्नकादयः । तत्कथा वसुदेवहिण्डिश्री आवश्यकप्रत्याख्यान निर्युक्तिवृत्त्यादिभ्योऽवसेया ॥ ४७ ॥ प्रधानफलमाह - पञ्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिद्वं । पत्ता अनंतजीवा, सासयसुक्खं अणाबाहं ॥ ४८ ॥ ॥ समाप्तमिदं तृतीयं प्रत्याख्यानभाष्यम् ॥
सुगम ॥ ४८ ॥ इति प्रत्याख्यानभाष्यावचूर्णिः श्री आवश्यकवृत्तितः कृता संक्षिप्ता गच्छनायक श्री सोमसुन्दरसूरिभिः ॥
सावचूरि०
॥ ७० ॥

Page Navigation
1 ... 68 69 70 71 72