Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 61
________________ प्र.भाष्यं SAMAN55A ज्ञाते भोक्तव्यम् । अपूर्णे तु ज्ञाते भुञ्जानस्य भङ्ग एव ३ । दिग्मोहो दिग्विपर्यास उच्यते । यदा पूर्वामपि पश्चिमेति जानाति, तदाऽपूर्णेऽपि पौरुष्यादिप्रत्याख्याने पूर्णमिति ज्ञात्वा मोहाद्भुञ्जानस्य न भङ्गः। मोहविगमे तु पूर्ववदर्धभुक्तेनैव स्थातव्यं, यावत्तत्प्रत्याख्यानं पूर्यते इति ४ ॥२४॥ साधुवचनं उद्घाटा पौरुषीत्यादिकं विभ्रमकारणं तच्छ्रुत्वा विभ्रमात्पौरुष्यादिप्रत्याख्यानं मे पूर्णमिति ज्ञात्वा भुञ्जानस्य न भङ्गः । भुञ्जानेन तु ज्ञातेऽन्येन वा कथिते पूर्ववत्तथैव स्थात-18 व्यम् ५। कृतपौरुष्यादिप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखस्यातरौद्रसर्वथानिरासेन तनुसुस्थता सर्वसमाधिस्तस्य प्रत्ययः । कारणं स एवाकारः, सर्व० समाधिनिमित्तमौषधपथ्यादिप्रवृत्तावपूर्णेऽपि पौरुष्यादिप्रत्याख्याने न भङ्ग इत्यर्थः ६ । महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं सङ्घचैत्यग्लानादिप्रयोजनं तदेवाकारः महत्तराकारः ७ । सागारिको गृहस्थः स एवाकारः सागारिकाकारः, तस्मादन्यत्र गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातादिबहुदोषसंभवात् , ततो भुझानस्य यदा सागारिकः समेति, स चेच्चलस्तदा क्षणं प्रतीक्ष्यते, अथ स्थिरस्तदा स्वाध्यायादिभङ्गपातभयादन्यत्र गत्वा भुञ्जानस्यापि न भङ्गः । गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति स सागारिको ग्राह्यः, उपलक्षणत्वाद्वन्दिसर्पप्रदीपनरेलिगृहपाताद्यप्यत्राकारे ज्ञेयम् ८ ॥ २५ ॥ हस्तपादाद्यङ्गानामाकुश्चनप्रसारणे|ऽसहिष्णुतया क्रियमाणे किश्चिदासनं चलति तेन न भङ्गः ९ । गुरोराचार्यस्य प्राघुर्णकसाधोर्वाभ्युत्थानं गुर्वभ्युत्थानं तेन | P विनयहेतोरवश्यकर्त्तव्येन कृतेन न भङ्गः १० । विधिना गृहीते विहृते विधिनैवान्यैः साधुभिर्युक्ते यत्किञ्चिदुद्धरितमधि* कमन्नं परिष्ठापनाह परिष्ठापनिकमुच्यते, तदेवाकारः। तत्र हि त्यज्यमाने बहुदोषसंभवाद्दुर्वनुज्ञया भुञ्जानस्य न भङ्गः। (अवि-ल ॥६१॥ MSTECE

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72