Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्र.भाष्यं
सावचूरि०
वोसिरई' इति च भएयते । तथैव पूर्वाचार्यपरम्परायातस्य करणविधेः सद्भावात् । यथा द्वितीयवन्दने 'आवसिआए' इति पदं करणविधिरेव न भण्यते तथेदमपीति ज्ञेयम् ॥९॥ तह तिविहपञ्चखाणे,भन्नंति य पाणगस्स आगारा। दुविहाहारे अञ्चित्तभोइणो तह य फासुजले॥१०॥
तथा त्रिविधाहारप्रत्याख्यानेऽचित्तभोजिनो द्विविधाहारप्रत्याख्यानेऽपि । तथा चैकाशनादिविशेषप्रत्याख्यानाभावेऽपि प्रासुकजलपाननिश्चये सति पानकस्य 'पाणस्स लेवेण वा' इत्यादिषडाकारा भण्यन्ते, उच्चार्यन्ते इत्यर्थः ॥१०॥ इत्तु च्चिय खवणंबिलनिविआइसुफासियं चिय जलं तु। सड्ढावि पियंति तहा पच्चक्खंति य तिहाहारं॥११॥
इत एवाचित्तभोजित्वात्प्रासुकजलपाननिश्चयवत्त्वादेव च श्राद्धा अपि उपवासाचाम्लनिर्विकृत्यादिषु आदिशब्दादेकाशनादिष्वप्यचित्तभोजिनःप्रासुकमेव जलं पिबन्ति । चः प्रायोऽर्थे । प्रायस्त्रिधाहारमेव च प्रत्याख्यान्ति ॥११॥ चउहाहारंतु नमो, रतिपि मुणीण सेस तिह चउहा। निसि पोरिसिपुरिमेगासणाइ सड्ढाणदुतिचउहा१२
नमस्कारसहितं सर्वेषां मुनीनां रात्रिप्रत्याख्यानमपि दिवसचरिममित्यादि चतुर्विधाहारमेव भवति । शेषाणि पौरुष्यादिप्रत्याख्यानानि चतुर्विधाहाराणि त्रिविधाहाराणि च भवन्ति। श्राद्धानां तु रात्रिप्रत्याख्यानं दिवसचरिममिति।पौरुषीपुरिमाधैंकाशनादि च यथाभिप्राय द्वित्रिचतुर्विधाहारमपि भवति॥१२॥अथ प्रसङ्गागतमुक्त्वा तृतीयमाहारस्वरूपरूपं द्वारमाहखुहपसमखमेगागी, आहारिव एइ देह वा सायं । खुहिओ व खिवइ कुठे, जं पंकुवमं तमाहारो ॥१३॥
1 अ-क-'पाणग च्छ' । 2 क-च-'त्रिविधा- ख-ग-प्रत्याख्यानम् ॥
4564

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72