Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 58
________________ प्र.भाष्यं सावरि० मुहूर्तानन्तरमपि नमस्कारपाठं विनाऽस्य भङ्ग एव । षट् पौरुष्यां सार्धपौरुष्या च 'अन्नत्थ १ सहसा २ पच्छन्न ३ दिसा ॥४ साहु ५ सब ६'। सप्त पुरिमार्थे, षट्र त एव महत्तराकारः सप्तमः । एकाशने व्याशनेऽपि चाष्टौ, 'अन्न १ सह२ सागा ३ आउं ४ गुरु ५ पारि ६ मह ७ सच । सप्कस्थाने मुखस्य पाणेश्चाशक्यपरिहारत्वाच्चलनं न प्रतिषिद्धं,शेषाङ्गानामाकुश्चनप्रसारणा नास्ति, शेषा यथैकाशनके। आचाम्लेऽष्टौ 'अन्न १ सह २ लेवा ३ गिह ४ उक्खि ५ पारि ६ मह ७ सब चतुर्थे समयपरिभाषया सामान्यत उपवासे पश्चाकाराः 'अन्न १ सह २ पारि ३ मह ४ सब ५। यदि त्रिविधाहार उपवासः प्रत्याख्यातस्तदा पारिष्ठापनिक भक्तादि कल्पते । यदि चतुर्विधाहारः प्रत्याख्यातः पानकं च नास्ति ततो न कल्पते । यदि तु पानकमप्यधिकं ततः कल्पते । पानके षडाकाराः 'लेवेण वा १ अलेवेण वा २ अच्छेण वा ३ बहुलेण | वा ४ ससित्थेण वा ५ असित्येण वा ६ ॥१६॥ चउ चरिमे चउभिग्गहि, पण पावरणे नव निबीए।आगारुक्खित्तविवेगमुत्तु दवविगइनियंमिट्ट॥१७॥ चरिमे दिवसचरिमे भवचरिमे च चत्वार आकाराः 'अन्न १ सह २ मह ३ सब ४' । अभिग्रहे ग्रन्थिसहितादिप्रत्याख्याने चत्वारः 'अन्न १ सह २ मह ३ सब ४' । प्रावरणाभिग्रहे 'पांगुरणसहि पच्चक्खामि' इति प्रत्याख्यानरूपे पञ्च 'अन्न १ सह २ चोलपट्टागारेणं ३ मह ४ सब ५' । निर्विकृतौ नवाष्टौ । नवाकाराः पिण्डद्रवरूपोभयविकृतिनियमे विकृतिप्रत्याख्याने च नव । द्रवरूपमात्रविकृतिनियमेऽष्टौ 'उक्खित्तविवेगेणं' इति मुक्त्वा, द्रवविकृतेरुक्षिप्तविवेकासंभवात्१७॥ 1क-च-'ऽपि' नास्ति । 2 च-'तदा' । घ-'नियम' । 4 अ-क-'मात्र' इति नास्ति ॥ CRORECARECRACK

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72