Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चै.वं.भाष्य
सावचूरि०
॥११॥
ACANCERCASSESALSACH
ग्यम् ३ । एकशाटक उत्तरासङ्गः, एकः शाटको देशान्तरप्रसिद्धः पृथुलपटादिरूपो यत्र स उत्तरासङ्गः, प्रावरणवस्त्रं तेन कृत्वोत्तरासङ्गः उत्तरीयकरणम् ४ । अनेन च निवसनवस्त्रेणोत्तरासङ्गकरणनिषेधमाह-एकग्रहणं पुनरुत्तरासङ्गेडनेकवस्त्रनिषेधार्थम्, न तु सर्वथोपरितनप्रावरणवस्त्रस्य । एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेणोत्तरासङ्गं कुर्यादित्यर्थः । 'अंजली' इति अञ्जलिबन्धः कार्यः ५। एतौ च पुरुषमाश्रित्य । स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलता। वृद्धसंप्रदायात्तु सांप्रतं स्त्रीणां वस्त्रत्रयं विना देवार्चादि कर्तुं न कल्पते ॥ २०॥ इय पंचविहाभिगमो, अहवा मुञ्चति रायचिन्हाइं ।खंग्गं छत्तोवाणह, मउँडं चमरे अपंचमए ॥२१॥ ___ अथवा न केवलं सच्चित्तान्येव द्रव्याणि मुच्यन्ते । किं तर्हि ? अचित्तान्यपि राजचिह्नानि राजलक्षणानि मुच्यन्ते॥२१॥ वंदंति जिणे दाहिणदिसिट्टिया पुरुस वामदिसिनारी नवकरजहन्न सकिरजिट्ट मझग्गहो सेसो॥२२॥
जिनान् जिनप्रतिमादक्षिणदिशि मूलबिम्बदक्षिणदिग्भागस्थिताः पुरुषाः । अन्यदिशधावग्रह उक्तः-“उकोससहि १ पन्ना २, चत्ता ३ तीसा ४ दसह ५ पणदसगं ६ । दस ७ नव ८ ति ९ दु १० एग ११ x १२, जिणुग्गहं बारसविभेयं” १॥ इति । एतावताच अर्धहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाग् गृहचैत्ये चैत्यगृहे वा यथा जिनबिम्बस्योच्छासादिजनिताशातना न स्यात्तथावग्रहबहिःस्थितैर्देववन्दना कार्या ॥ २२॥ नमुकारेण जहन्ना, चिइवंदणमझदंडथुइजुअला। पणदंडथुइचउक्कगथयपणिहाणेहिँ उक्कोसा ॥२३॥1
1 इतः परम् क-घ-'वामदिशि नार्यः' इत्यधिकम् । 2 घ-'नवकारेण ॥
॥११॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72