Book Title: Savchurikam Bhashyatraya Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 9
________________ चै.वं.भाष्यात ____आसां विषयविभागमाह सावचूरि० पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥ १८॥श पश्चाङ्गानि विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः, प्रणिपातः प्रणामः, प्रणिपातदण्डकपाठस्यादाववसाने च कर्त्तव्य-13 तया लब्धैतन्नामा, स चोत्कर्षतः पञ्चाङ्गः कार्यः। यत्पुनः “वामं जाणुं अंचेइ" इत्याद्युक्तं, तत्प्रभुत्वादिकारणाश्रितत्वाद् न यथोक्तविधिबाधकतया प्रभवितुमर्हति । यद्यपीह पश्चाङ्गः प्रणिपात इत्युक्तम् , तथापि पञ्चाङ्गया मुद्रया प्रणिपातः | कार्य इति द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात् । नन्वेवं 'मुद्दातियं' इति उक्तसंख्याविघातः, न योगमुद्रादयो ह्येव परिसं-18 ख्याताः, सूत्रोच्चारसमकालभावितया मूलमुद्रात्रयरूपत्वात् । मुकुटाञ्जलिपञ्चाङ्गीमुद्रादयस्तु प्रणामकरणकालभावित्वेनोत्तरमुद्रारूपत्वान परिज्ञाताः। यदपि-"करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्ट एवं वयासि" इत्युक्तं | दृश्यते, तदपि सूत्रोच्चारस्यादिविनयविशेषदर्शनपरं, न पुनस्तथास्थितस्यैव सूत्रोच्चारख्यापनपरं, अन्यदापि नृपादिविज्ञ-18 पनादावप्यादौ तथाप्रतिपत्तेर्भणनात् , तथास्थितस्य विज्ञपनादेरदर्शनात् । यद्येवंस्थितस्यैव सूत्रपाठस्ततोऽपिहितमुखत्वेन धर्मरुचिसाध्वादीनामपि सावद्यभाषापत्तिः। स्तवपाठः शक्रस्तवादिभणनं भवति कर्त्तव्यो योगमुद्रया। इह साधुः श्रावको वा चैत्यगृहादौ विधिना त्रिः प्रमृज्य क्षितितलनिहितजानुयुगः करसत्यापितयोगमुद्रः प्रणिपातदण्डक पठति । यत्पुनज्ञाताधर्मकथादिषु धर्मरुचिसाध्वादिचरितानुबादे भणितम् "पुरत्थाभिमुहे संपलियंकनिसन्ने करयल-” इत्यादि तत्साक्षा1 क-'व्याघातः' । 2 क-ग-'यद्यपि' । 3 इतः परम् क-घ- 'शक्रस्तवापरपर्यायनाम' इत्यधिकम् ॥ SECREENAS यदपि दर्शनपर, न पुननादरदर्शनात् । कर्तव्यो योगदण्डकं पठति तत्साक्षा 4515GEECASSASSASSACRECASS ALAPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72