Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 26
________________ चे. वं. भाष्यं ॥ २६ ॥ सिद्धाः, संप्रति च वर्त्तमानाः छद्मस्था इत्यथेः । एकचैत्यस्थापनाजिनान् यत्र देवगृहादौ चैत्यवन्दनं कर्तुमारब्धं तत्र मे सावचूरि० स्थापितानि यानि जिनबिम्बानि तानीत्यर्थः । तृतीये 'अरिहंतचेइयाणं' इति दण्डकरूपे । नामजिनान् जिननामानि । त्रिभुवने स्थापनाजिनान् शाश्वताशाश्वतचैत्यस्थापितार्हत्सिद्धप्रतिमारूपान् । एतेन च सिद्धप्रतिमानामप्यग्रे 'अरिहंत चेइयाणं' इत्यपि दण्डकः पाठाय संगच्छते । विहरमाणजिनान् पञ्चदशकर्मभूमिषु विहारं कुर्वाणान् सूत्रार्थकथनपरायणान् भावार्हतः । उक्तं च - "पढमे छडे नवमे, दसमे एगारसे य भावजिणे" । सप्तमे 'तमतिमिर' इत्यादिस्वरूपे' सर्वेषां तीर्थसिद्धादिभेदभिन्नानां नामस्थापनादिरूपाणां वा सिद्धानां क्षपितकर्माशानां स्तुतिः क्रियते ॥ 'उज्जयंत' इति उज्जयन्तालङ्करणस्य श्रीनेमेः स्तुतिः । एकादशे 'अठ्ठावय' इति अष्टापदोपरि वर्त्तमानचतुर्विंशतिजिनस्तुतिः क्रियते । आदिशब्दादन्यत्रगा अपि जिना अनया गाथया वन्द्यन्ते । सुदृष्टिसुराणां स्मरणा तत्तत्प्रवचनादिविषये वैयावृत्त्यादिगुणानुचिन्तनोत्कीर्तनादिनोपबृंहणा । यथा धन्याः पुण्यवन्तो यूयमित्यादि । अथवा स्मारणा सङ्घादिविषये प्रमादिनां श्लथीभूतवैयावृत्त्यादितत्कृत्यानां संस्मारणम् । चरमे 'वेयावच्चगराणं' इत्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यन्ते क्रियते, औचित्यप्रवृत्तिरू 1 क-घ - 'उक्तं च- "भूतस्य भाविनो वा, भावस्य हि कारणं तु यलोके । तद्द्रव्यं तत्त्वज्ञैः, सचेतनाचेतनं कथितम् " ॥ १ ॥ इत्यधिकम् । 2 इतोऽर्वाक् क- 'चतुर्थे' इत्यधिकम् । 3 क-घ- इतः पूर्वम् 'आत्मन आसन्नोपकारित्वाच्चतुर्विंशतिमपि जिनान्नामोत्कीर्त्तनेन स्तोमीत्यर्थः' इत्यधिकम् । इतः परम् क- 'पञ्चमे' इत्यप्यधिकम् । 4 इतोऽर्वाक् क- घ ' षष्ठे' इत्यधिकम् । 5 इतः परम् क-ध-श्रुतज्ञानम् । 'अष्टमे ' इत्यधिकम् । 6 इतः परम् क- घ - ' नवमे श्रीवीरस्तुतिः । दशमे' इत्यधिकम् || ॥ २६ ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72