Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 41
________________ सावचूरि० गु.वं.भाष्य ॥४१॥ RRRRRRRRR द्याजीवी च चारित्रकुशीलोऽवगन्तव्यः३। पार्श्वस्थादिक तपस्विनं चासाद्य संसज्यते, सन्निहितदोषगुणो भवतीति संसक्तः । स च द्विधा, संक्लिष्टासंक्लिष्टभेदात् । हिंसादिपञ्चाश्रवप्रवृत्तः, ऋयादिगारवत्रयप्रतिबद्धः, स्त्रीगृहादिमोहबद्धः, संक्लिष्टसंसक्को ज्ञेयः। यस्तु यत्र यत्र पार्श्वस्थादिषु संविग्नेषु च मिलति, तत्र तत्र तादृशमात्मानं दर्शयति, स च प्रियधर्म इतरो वा, रागादिविशेषसक्लेशाभावादसंक्लिष्टसंसको ज्ञेयः ४ । यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दः । स चोत्सूत्रानुपदिष्टस्वमतिविकल्पितकारी,परतप्तिप्रवृत्तो, यत्किञ्चिद्भाषी, सुखस्वादविकृतिगारवप्रतिबद्धोऽनेकविधो भवति ५। एते पश्चाप्यवन्दनीया जिनमते भवन्ति । यदुक्तम्-"पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव कुणइ तह कम्मबंधं च” १॥ इत्यादि ॥ १२ ॥ वन्दनकयोग्यपञ्चकरूपं तुर्य द्वारमाहहूँ आयरिय उवज्झोए, पेवित्तिं थेरे तहेव रायणिए। किइकम्म निजरट्ठा, कायवमिमेसि पंचन्हं ॥ १३॥ सूत्रार्थवित्, बाह्यान्तरङ्गलक्षणयुक्तो, गच्छमूलस्तम्भभूतो, गच्छचिन्तारहितोऽर्थभाषी, आचार्यों भवति १ । रत्नत्रययुक्तः, सूत्रार्थोभयवेदी, शिष्याणां सूत्रवाचनादायी, उपाध्यायो ज्ञेयः२। तपःसंयमयोगेषु यथायोग्यं सर्वेषां प्रवत्तको, गच्छचिन्ताकारी, प्रवर्तकः ३ । गच्छस्य प्रवर्तकप्रवर्तिततपःसंयमादिव्यापारेषु सीदमानानां स्थिरताकारी, स्थविरो ज्ञेयः ४। गच्छकार्ये क्षेत्रोपध्यादिलाभार्थ विहारकरणशीलः, सूत्रार्थोभयवेदी, रालिको गणावच्छेदकापरपर्याय उच्यते ५॥ एतेषां पञ्चानां निर्जराथै कृतिकर्म द्वादशाव-वन्दनकं कर्त्तव्यम् ॥ १३ ॥ वन्दनकदापनानहचतुष्करूपं पञ्चमं द्वारमाह| 1 अ-च-'सुखाखा-12 अ-पवत्त' । घ-'पवत्ति' ॥ ॥४१॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72