Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
गु.वं. भाष्यं
॥ ४९ ॥
वि० ५
सप्तदशं द्वारं सुगगम् । नवरं गुर्वक्षराणि १ प्रथमपदे-च्छा, ४ प० जा, ८ प० ग्ग, १३ ५० जो, १६ ५० प्प, २० प० के २१५० त्ता, २३ प० जं, २९-३१ ५० क, ३५ प० त्ती-न्न, ३६ प० च्छा, ३७-३८-३९ ५० क्क, ४४ ५० व ४५ ५० ब-च्छो, ४६ प० - म्मा- क, ५२ ५० स्स, ५३ ५० क्क, ५४ प०प्पा, रूपाणि पञ्चविंशतिर्ज्ञेयानि ॥३१॥ अष्टादशं तदाहपण तिग बारस दुग तिग, चउरो छ ट्ठाण पय इगुणतीसं । गुणतीस सेस आवस्सयाइ सवपय अडवन्ना॥३२॥
वन्दन षट्स्थानसत्पदानि २९ । तत्र प्रथमे स्थाने ५, द्वितीये ३, तृतीये १२, चतुर्थे २, पञ्चमे ३, षष्ठे ४, पदानि एवं २९ । शेषाणि 'आवसियाए' इत्यादीन्यपि पदानि २९ । सर्वपदानि वन्दनेऽष्टपञ्चाशद्भवन्ति । पदं च विभक्तयन्तमत्र ग्राह्यम् ॥ ३२ ॥ एकोनविंशे द्वारे षट् स्थानान्येवाह
इच्छोय अणुन्नवैणा, अव्वाबहं च जैत्त जवणी य । अवराहखामणावि अ, वंदणदायस्स छ ट्ठाणा ॥३३॥
'इच्छामि' इत्यादि 'निसीहियाए' पर्यन्तं प्रथमं स्थानम् १ | 'अणुजाणह' इत्यादि द्वितीयम् २ | 'निसीहि' इत्यादि 'वइकंतो' इति पर्यन्तम् ३ । जत्ता भे ४ । जवणिज्जं च भे ५ । खामेमि खमासमणो देवसिअं वइक्कमं इति ६ । एतानि षटू स्थानानि वन्दनदातुर्भवन्ति ॥ ३३ ॥ एषु षट्स्थानपर्यन्तेषु उत्तररूपाणि षट् गुरुवचनानि भवन्तीति विंशं द्वारम् - छंदेणणुजाणोमी, तर्हेत्ति तुब्भंपि वए ऐवं । अहमवि खामेमि तुमं, वयणाई बंदणरिहस्त ॥ ३४ ॥ छन्देनेत्यादीनि वन्दनार्हस्य गुरोः षड् वचनानि भवन्ति ॥ ३४ ॥ अथ ३३ आशातनास्वरूपमेकविंशं द्वारम् - 1 घ - च- पुस्तकयोरेव 'नवर' इत्यत आरभ्य 'ज्ञेयानि ' इत्यन्तमधिकमुपलभ्यते परं सोपयोगित्वान्मूल आदृतः ॥
सावचूरि
॥ ४९ ॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72