Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 47
________________ गु.वं. भाष्य ॥ ४७ ॥ उत्तमाङ्गैकदेशेन वन्दते २४ । करं मन्यमानो वन्दते, न निर्जरार्थम् २५ । 'मोचनं' नान्यथा मोक्ष एतेन पुनर्दत्तेन मोक्ष इति वन्दते २६ । 'आश्लिष्टानाश्लिष्टं' अत्र चतुर्भङ्गी रजोहरणं कराभ्यामाश्लिष्यति शिरश्चैष शुद्धः १, रजोहरणं न शिरः २, शिरो न रजोहरणं ३, उभयमपि न ४, शेषेषु त्रिषु प्रकृतदोषावतारः २७ । 'ऊनं' व्यञ्जनाभिलापावश्यकैरसंपूर्ण वन्दते २८ । 'उत्तरचूडं' वन्दित्वा पश्चान्महता शब्देन मस्तकेन वन्दे इति भणति २९ । 'मूकं' आलापकाननुच्चारयन् बन्दते ३० । 'ढहरं' महता शब्देनोच्चारयन् वन्दते ३१ । 'चुडुलि' इति उल्मुकमित्र पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ॥ ३२ ॥ २५ ॥ 11 बत्तीसदोस परिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निवाणं, अचिरेण विमाणवासं वा ॥ २६ ॥ सुगम ॥ २६ ॥ अथ चतुर्दशं गुणद्वारमाह| इह छच्च गुणा विणओवयार माणाइभंग गुरुपूआ । तित्थयराण य आणा, सुयधम्माराहणा किरिया ॥२७॥ इह वन्दनदाने षणा भवन्ति । विनय एवोपचारः कृतः स्यात् १ । स एव किमर्थम् ? मानस्य भञ्जना विनाशस्तदर्थः २। मानभङ्गे च पूजना गुरुजनस्य कृता स्यात् ३ । तीर्थकराणां चाज्ञाऽनुपालिता स्यात् ४ । तथा श्रुतधर्माराधना कृता स्यात् ५ । 'अकिरिया' इति पारम्पर्येणाक्रिया स्यात् । यतोऽक्रियः सिद्धः ६ ॥ २७ ॥ पञ्चदशं गुरुस्थापनाद्वारमाह— 1 ‘परि' इत्यक्षरद्वयमत्राधिकं पतितं भवेत् । परं 'परि' इत्यस्य अस्मादासन्नसर्वादर्शेषु दृश्यमानत्वाचाहस एव पाठो मूल आहत इति । 2 इतोऽग्रे क-च- 'उच्यते' इत्यधिकम् ॥ सावचूरि० ॥ ४७ ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72