Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 39
________________ गु.वं. भाष्य ॥ ३९ ॥ वन्दनके शीतलाचार्यदृष्टान्तः । तथाहि - एकस्य राज्ञः पुत्रः शीतलः प्रव्रजितः । तस्य भगिनी अन्यराज्ञो दत्ता । सा स्वसुतचतुष्कस्याग्रे शीतलाचार्यप्रशंसां करोति । तेन ते चत्वारोऽपि पुत्राः स्थविरान्ते प्रव्रज्य बहुश्रुता गुरुमापृच्छ्य मातुलवन्दनाथैकस्मिन् पुरे श्रुत्वा गताः । मध्यप्रवेष्टुकामैश्राद्धाय कथयित्वा विकाले बहिर्देवकुले स्थिताः । रात्रौ शुभध्या - नातेषां ज्ञानं जातम् । प्रगेऽनिवृत्त्या मातुलागमनम् । पूर्वं कषायतो द्रव्यवन्दनम् । पश्चाज्ज्ञाते भाववन्दनतः शीतलस्यापि केवलज्ञानम् १ ॥ चितिकर्मोपरि क्षुल्लकदृष्टान्तः । तद्यथा - एकः क्षुल्लकः सल्लक्षणः । आचार्यैः कालं कुर्वद्भिः स्वपदे स्थापितः । गीतार्थसाधूनां पार्श्वे पठति । सोऽन्यदा मोहनीयाद्भग्नपरिणामः साधुषु भिक्षां गतेषु वहिर्भूमिमिषादेकदिशा गच्छन् वने तिलकबकुलादिषु भव्यवृक्षेषु सत्स्वपि शमीपूजनं दृष्ट्वा "पूज्यैः पूजितोऽयम्” इति च जनवचः श्रुत्वा शमीशंखरसमोऽहं कुतो मे श्रामण्यम् ? रजोहरणादिचितिगुणेन मां पूजयन्तीति विमृश्य प्रत्यागतः साधूनामालोचितवान् । तस्य पूर्व द्रव्यचितिः, पश्चाद्भावश्चितिः २ ॥ कृतिकर्मणि कृष्णवीरोदाहरणम् । यथा- कृष्णवासुदेवस्य श्रीनेम्यागमने सर्वसाधून् द्वादशावर्त्तवन्दनेन वन्दमानस्य भावकृतिकर्म, वीराकस्य द्रव्यकृतिकर्म ३ ॥ पूजाकर्मणि सेवकद्वयोदाहरणमिदम् - एकस्य राशो द्वौ सेवक ग्रामसीमनिमित्तं राजकुलं गच्छन्तौ पथि साधुं दृष्ट्वा "ध्रुवा सिद्धिः" इत्येको भावेन 1 ख-ग-'चार्यो - 2 क-ध-'यथा' 3 क-घ -' मध्ये प्रवेष्टुकामाः श्रा - 4 घ 'इदम्' इति नास्ति 15 इतः परम् क-घ"एक ऊचे "ध्रुवा सिद्धिः" इत्येको भावेन वन्दितवान् । द्वितीयोऽप्युद्धट्टनं कुर्वन् द्रव्यवन्दनं चक्रे । द्वावपि खाम्यन्तिके गतौ । एकः पदं लेमेऽपरो विषदम् 8 ।' इत्येवंरूपावचूरिः ॥ सावचूरि० ॥ ३९ ॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72