Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 40
________________ गु.वं.भाष्य सावचरित ॥४०॥ वन्दितवान् , अपरस्तूद्धट्टनं कुर्वन् । ततो व्यवहारे भावपूजाकृता सेवकेन जितम् ४॥ विनयकर्मणि शाम्बपालकदृ- ष्टान्तः; स चायम्-श्रीनेमिः प्रथम पालकेन द्रव्यतो वन्दितः तुरङ्गमलोभेन, शाम्बेन तु भावतः५ ॥ इति कृतिकर्मणि है सामान्यतो वन्दनके द्रव्यभावाभ्यां पश्चैते दृष्टान्ता भवन्ति ॥ ११॥ वन्दनकाऽयोग्यपञ्चकरूपं तृतीयद्वारमाहपासत्थोओसन्नो, कुसील संसत्तओ अहाच्छंदो। दुगदुगतिदुणेगविहा, अवंदणिज्जा जिणमयम्मि ॥१२॥ ज्ञानदर्शनचारित्राणां पार्थे तिष्ठतीति पार्श्वस्थः । स च द्विविधः, सर्वपार्श्वस्थो देशपार्श्वस्थश्च । तत्राद्यः सर्वथा ज्ञानदर्शनचारित्राणां पार्श्ववती ज्ञेयः। द्वितीयो देशपार्श्वस्थस्तु कारणं विनापि शय्यांतरपिण्डाभ्याहृतराजपिण्डनित्याग्रपिण्डभोजी, कुलनिश्राविहारी, कारणं विनापि स्थापनाकुलप्रवेशी, संखड्यवलोकको, गृहस्थसंस्तवकारी च ज्ञेयः १ । सामाचार्यासेवनेऽवसन्नवदवसन्नः। सोऽपि द्विधा, सर्वतो देशतश्च। तत्राद्यो वर्षाकालं विनापि शेषकाले पीठफलकादिपरिभोगी, स्थापनापिण्डभोजी च ज्ञातव्यः। द्वितीयो देशावसन्नस्तु प्रतिक्रमणस्वाध्यायप्रतिलेखनादशसामाचार्यादिहीनाधिकत्वकारी गुरुणा शिक्षित आलजालभाषी च ज्ञेयः २ । कुत्सितं शीलमाचारोऽस्येति कुशीलः, स च त्रिविधः । तद्यथा-अकालाविनयाबहुमानगुरुनिह्नवादिनाऽध्यायी ज्ञानकुशीलः । शङ्काकाङ्क्षाविचिकित्सादिपरो दर्शनकुशीलः । सौभाग्यादिहेतु- स्नानाद्युपदेशी, अभिमन्त्रितरक्षादानाऽतीतादिनिमित्तप्रकाशनप्रश्नस्त्रीपुरुषादिलक्षणादिकथनपरो, भिक्षालाभाद्यर्थ जात्या 1 इतोऽर्वाक क-घ-'पञ्चवल्लम-' इत्यधिकम् । 2 ख-'जिणमएए' इत्यपि । 3 क-घ-'राभ्याहृतपिण्डराज-'। 4 ख-'-श्राव-' इति । 5 ख-'धुपदेशाभिम- च-'धुपदेशदायी' ॥ ACCCCCCCCCC ॥४॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72