Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 36
________________ गु.वं. भाष्यं ॥ ३६ ॥ आचारस्य तु सर्वज्ञप्रणीत श्रीधर्मस्य मूलं तावद्विनयः । तुशब्द आचारस्य सर्वज्ञप्रणीतत्वं विशेषयति । स च विनयो गुणवतो गुरोः प्रतिपत्तिरुच्यते । चशब्दोऽत्र व्यवहितो बन्धानुलोम्याज्ज्ञेयः । सा च गुणवत्प्रतिपत्तिर्विधिवन्दनाद्भवति । विधिश्व 'इमो' अयं वक्ष्यमाणो द्वादशावर्त्तवन्दने भवति ॥ ३ ॥ वन्दनकद्वयस्वरूपं प्रागुक्तम्, तृतीयमाह - तेइयं तु छंदणदुगे, तत्थ मिहो आइमं सयलसंघे। बीयं तु दंसणीण य, पयद्वियाणं च तइयं तु ॥ ४ ॥ 'तृतीयं तु' द्वादशावर्त्तयन्दनं छन्दनद्विके सति भवति ३ । छन्दनशब्देन वन्दनकमुच्यते । अत्र त्रिविधवन्दनस्य विषयविभागमाह - 'तत्र' वन्दनत्रये 'आदिमं' फिट्टावन्दनं 'मिथः' परस्परं 'सकलस' साधुसाध्वीश्रावकश्राविकालक्षणे भवति कर्त्तव्यं, तेषु तेष्ववसरेषु । 'द्वितीयं तु' छोभवन्दनं दर्शनिनामेव भवति । शब्द एवार्थे । दर्शनिग्रहणात्तथाविधविशिष्टकार्ये लिङ्गमात्रधारि वन्दनमपि प्रतिपत्तव्यम् । तृतीयं तु द्वादशावर्त्तवन्दनं आचार्योपाध्यायादिपदप्रतिष्ठितानामेव कर्त्तव्यम् । अत्रापि चशब्द एवार्थे ॥ ४ ॥ अर्थ ग्रन्थकृत् श्रीसिद्धान्तभक्त्या द्वादशावर्त्तवन्दनविधिप्रतिपादकं श्रीआवश्यक निर्युक्तिगतमेव द्वारगाथाद्वयमाह - वंदण चिई किइकम्मं, पूयार्केम्मं च विणयकैम्मं च । कायवं केस्स व केणं वावि कहे व कइ खुत्तो ॥ ५ ॥ कइओर्णयं कईसिरं, कइहिँ व आवस्सएहिँ परिसुद्धं । कइदोसविप्पमुक्कं, किइर्कम्मं कीस कीरेंइ वा ॥ ६ ॥ 1 अ-च-'अथ' । 2 क - घ - 'प्रथमं । 3 घ - ' चशब्द' इत्यारभ्य 'प्रतिपत्तव्यं' इत्यन्तं नास्ति । 4 ख - 'एवार्थे' इत्यन्तमेव समापितम् । 15 क-घ- 'तृतीयं तु आचार्यादिपदस्थानामेव । चशब्द एवार्थे' इत्येवंरूपावचूरिः । 6 च- 'दातव्यम्' 17 ग इतः परम् ' भवति' इत्यधिकम् ॥ सावचूरि० ॥ ३६ ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72