Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 16
________________ चै.वं. भाष्यं ॥ १६ ॥ विश्रामा विश्रमणस्थानानि संपदो महापदानीत्येकोऽर्थः । पञ्चमङ्गलमहाश्रुतस्कन्धे महापदानि 'पायसमा ऊसासा' इति वचनादुच्छ्रासपूरणार्थमष्टौ । अयमर्थः - इहान्यत्रापि यत्र कायोत्सर्गेऽष्टच्छ्रासपूरणार्थं नवकारश्चिन्त्यते, तत्र महापदेषु विश्रामं कुर्वद्भिस्ते पूरणीयाः । अत एव तपोऽप्यत्राष्ट्रावाचामाम्लानि प्रतिमहापद्मेकैकाचाम्लकरणात्, आद्यन्तोपवासानां तु पूर्वोत्तरचरणानुपातित्वादष्टौ संपदः, संगतार्थपदपरिच्छिन्नात्मिकाः, सांगत्येन पद्यते परिच्छिद्यतेऽर्थो यकाभिरिति व्युत्पत्तेः । ईर्यापथिक्यां प्रतिक्रमणश्रुतस्कन्धे 'ठामि काउस्सग्गं' इति प्रोक्तप्रोच्यमानावधिप्रमाणे अत्राप्यष्टा चामाम्लप्रमाणतपसो भणितत्वात् । शक्रस्तवे ९ 'जियभयाणं' इति यावत् । ८ संपदः 'अब्भुवगमो' इत्याद्यर्थाधिकाराष्टक परिच्छिन्नाश्चैत्यस्तवे । एवं चतुर्विंशतिस्तवे एकश्लोकगाथाषट्कप्रमाणे २८ श्लोकादिचतुर्थांशरूपाः । परतः कायोत्सर्गदण्डकत्वात्तद्गताष्टसंपदां प्राकू चैत्यस्तवे गणितत्वात् 'अदुरुत्त' इति अत्राप्यनुवर्त्तनात् । १६ श्रुतस्तवे गाथादिरूपचतुर्वृत्तप्रमाणे । २० सिद्धस्तवे गाथापश्चकप्रमाणे । एताश्च मिलिता अपुनरुक्ताः ९७ स्युः । यदा तु “ इरियाथुइतिगुसग्गे, पण १ इ २ अड ३ छच्च संपयसगीसा" इति भणितेरीर्यापथिकीनामस्तवादिस्तुतित्रय कायोत्सर्गगताः ५ । ८ । ८ । ६ । पुनरुक्ता अपि २७ संपदो गण्यन्ते तदा १२४ स्युः ॥ २९ ॥ संप्रति सुखावबोधार्थं स्थानसप्तकेऽपि प्रत्येकं युगपद्वर्णपदसंपत्संख्यां संपदाद्यपदानि च बिभणिषुः प्रथमं नमस्कारे तदाह वन्नट्ठसट्ठि नवपय, नवकारे अट्ठ संपया तत्थ । सगसंपय पयतुल्ला, सतरक्खर अट्ठमी दुपया ॥ ३० ॥ 1 ख-ग - ' संगतार्थाः' इत्यसमस्तम् । 2 अ-क-घ - 'प्रमाण' इति नास्ति ॥ सावचूरि ॥ १६ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72