Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चै.वं.भाष्य
॥१९॥
ASSURAH249
। प्रणिपाते क्षमाश्रमणेऽक्षराणि २८, ईर्यापथिक्यां वर्णाः १९९, 'ठामि काउस्सग्गं' इति यावत् । कायोत्सर्गदण्डकवर्ण- सावचूरि० सहितास्तु ३४० । अपरे तु 'मिच्छामि दुकडं' इति पर्यवसानम् 'वण्णाण सहसयं' इति भणन्ति ॥ ३१ ॥ यस्यां संपदि| यावन्ति पदानि सन्ति तत्संख्यामाद्यपदपरिज्ञाने च शेषपदानि सुखेन ज्ञायन्ते इत्याद्यपदानि 'चेयोपथिकीसंपदामाह
दुग दुग इग चउ इग पण इगार छग इरिय संपयाइ पया।
इच्छा ईरि गर्म पाणा, जे मे एगिदि अभि तस्स ॥ ३२॥ 'इच्छा' इति वर्णद्वयसूचिताद्यपदा 'इच्छामि १ पडिक्कमिउं २' इति पदद्वयपरिमाणाभ्युपगमसंपत् १ । 'इरि' इत्यभिहिताद्यपदा 'इरियावहियाए विराहणाए' इति पदद्वयनिष्पन्ना कार्यसंपत् २ । 'गम' इत्यनेन 'गमणागमणे इत्येकपदमाना सामान्यहेतुसंपत् ३ । 'पाणा' इत्यनेन 'पाणक्कमणे १ बीयक्रमणे २ हरियक्कमणे ३ ओसाउत्तिंगषणगदगमट्टीमकडा संताणासंकमणे ४' इति पदचतुष्कमाना विशेषहेतुसंपत् ४ । 'जे में' इत्यनेन 'जे मे जीवा विराहिया' इत्येकपदमाना संग्रहसंपत् ५। 'एगिदि' इत्यनेन 'एगिदिया' इत्यादि पदपञ्चकमिता जीवभेदाभिधायिनी संपत् ६ । 'अभि' इत्य-5 |नेन 'अभिहया' इत्यादि 'तस्समिच्छामि दुक्कडं' इत्यन्तैकादशपदमाना विराधनाभेदमल्यापिका संपत् ७ । 'तस्स' इत्य
नेन 'तस्स उत्तरीकरणेणं' इत्यादि 'ठामि काउस्सग्ग' इत्यन्तपदषदमाना प्रतिक्रमणप्रकारान्तरप्रतिपादिका संपत् ८॥ |एतासु च पूर्वाः पञ्च ई-पथिक्याः श्रुतस्कन्धस्व मूलसंपद उच्यन्ते, शेषास्तु तिम्रः चूलिकासंपदः ॥३२॥
1 घ-संपदमाह' 12 घ-च-'बिराधनाविभे-॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72