Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
चै.वं.भाष्य
सावचूरि०
॥१२॥
नमस्कारेणाञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण । यद्वा "नमो अरिहंताणं" इत्यादिना । अथवैकेन श्लोकादिरूपेण । नमस्कारेणेति जातिनिर्देशाबहुभिरपि नमस्कारैः । यद्वा नमस्कारेण प्रणिपातापरनामतया प्रणिपातदण्डकेनैकेन । मध्या मध्यमा, दण्डकश्च “अरिहंतचेइयाणं" इत्यायेकः, स्तुतिश्च प्रतीता, एका तदन्त एव या दीयते, ते एव युगलं यस्यां सा दण्डस्तुतियुगला चैत्यवन्दना । शक्रस्तवोऽप्यादौ भण्यते। अथवा दण्डयोः शक्रस्तवचैत्यस्तवरूपयोयुगलं स्तुत्योश्च युगलं यत्र सा दण्डस्तुतियुगला । इह चैका स्तुतिः चैत्यवन्दनादण्डककायोत्सर्गानन्तरं श्लोकादिरूपतया | अन्यान्यजिनचैत्यविषयतयाऽध्रुवात्मिका, तदनन्तरं चान्या ध्रुवा “लोगस्सुजोयगरे" इत्यादिनामस्तुतिसमुच्चारस्वरूपा । यद्वा दण्डकाः शक्रस्तवादयः पञ्च, स्तुतियुगलं च समयभाषया स्तुतिचतुष्टयमुच्यते । यत आद्यास्तिस्रोऽपि स्तुतयो वन्दनादिरूपत्वादेका गण्यते, चतुर्थी स्तुतिरनुशास्तिरूपत्वाद् द्वितीया उच्यते । तथा पञ्चभिर्दण्डकैः स्तुतिचतुष्केण स्तवेन प्रणिधानेन चोत्कृष्टा ॥ २३ ॥ अन्ने बिति इगेणं, सक्कथएणं जहन्नवंदणया। तहुगतिगेण मज्झो, उक्कोसो चउहि पंचहि वा ॥२४॥
तत्र “इरियाए पुर्व वा, पणिहाणंते व सक्थयभणणे । दुगुणचियवंदणंते, व हुंति सक्कत्थया तिन्नि ॥१॥ इगवार| वंदणे पुत्र ३ पच्छ ४ सक्कथएहि ते चउरो। दुगुणियवंदणए वा, पुyि पच्छा व सक्कथए ॥२॥ सक्कथओ य इरिया, दुगुणियचिइवंदणाइ तह तिन्नि । थुत्तपणिहाण सकत्थओ य इय पंच सक्कथया" ॥३॥२४॥
1 घ-ख-'इत्यादिकः' 12 च-'अत्र' ॥
॥१२॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72