Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ मक्खयगंधधुवदीवेटिंइति विकम्ममहणी, अलवयार हादिषु च प्राय एवं पूजा चैवं.भाष्य माहुः-"तहियं पंचुवयारा, कुसुमक्खयगंधधूवदीवेटिं" इति । अष्टोपचाराऽङ्गाग्रपूजागोचरा-"कुसुम १ क्खय २ गंध ३ पईव ४ धूव ५ नेवज ६ फल ७ जलेहिँ ८ पुणो । अट्ठविहकम्ममहणी, अदुवयारा हवइ पूया" ॥ १॥ नपनादिभेदानन्तरेण यत्पश्चादिपूजाभेदानामेवमुपन्यासस्तत्पूर्वपूजितादिषु मृन्मयादिबिम्बेषु सन्ध्यादिषु च प्राय एवं पूजा-181 सद्भावितया सर्वदा सर्वोपयोगित्वादिति ज्ञापनार्थम् । सर्वोपचाराऽङ्गाग्रभावपूजात्मिका । आसां पुष्पादिपूजाभ्यो भेदेनोपन्यास एकद्वित्रिपूजारूपत्वात् । यच्चान्यत्र-"सयमाणयणे पढमा, बीआ आणावणेण अन्नेहिं । तइया मणसा संपाड-| णेण वरपुप्फमाईणं" ॥१॥ इति पूजात्रिकमुक्तम् , तत् कायवाग्मनोयोगितया करणकारणानुमतिभेदतया च सर्वपूजान्तर्गतमिति न पृथग्भावितम् । एवम्-“विग्धोवसामिगेगा, अब्भुदयपसाहणी भवे बीआ। निवुइकरणी तइया, फलया उ जहत्थनामेहिं" ॥१॥ इत्यपि त्रिकमङ्गादिपूजाफलाभिधायितया पूजाकार्यत्वेन तदभिन्नत्वात् ॥१०॥ भाविज अवत्थतियं, पिण्डत्थे पयत्थ रूवरहिअत्तं । छउमत्थ केवेलितं, सिद्धत्तं चेव तस्सत्थो ॥११॥ हूँ न्हवणच्चगेहिँ छउमत्थ वत्थपडिहारगेहिँ केवैलियं। पलियंकुस्सग्गेहि अ, जिणस्स भाविज सिद्धत्तं ॥१२॥ | स्नपनमर्ची च कुर्वन्तीति स्नपनार्चकाः। ततश्च स्नापकैः परिकरोपरिघटितगजारूढकरकलितकलशैरमरैः, अर्चकैश्च तत्रैव घटितमालाधारैः कृत्वा जिनस्य छद्मस्थावस्थां भावयेत् । छद्मस्थावस्था च त्रिधा-जन्मावस्था १, राज्यावस्था २, __1 क-हणणी'। 2 घ-रूपस्थं ध्यानं हि जिनबिम्बादिदर्शनमात्रादपि सिध्यति । उक्तं च-"वर्णादिप्रतिमानामहद्रूपं यथास्थितं पश्येत् ।। सप्रातिहार्यशोमं, यत्तद्ध्यानमिह रूपस्थम् " ॥१॥ इत्यस्या गाथाया उपरि इत्येवंरूपमधिकमस्ति न शेषप्रत्यन्तरेषु ॥ .

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 72