SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ चै.वं. भाष्यं ॥ ८ ॥ अनंतरिअंगुलिकोसागारेहिं दोहिँ हत्थेहिं । पिट्टोवरि कुप्परसंठिए हिँ तह जोगमुद्दति ॥ १५ ॥ उभयकरजोडनेन परस्परमध्यप्रविष्टाङ्गुलिभिः कृत्वा पद्मकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यां तथोदरस्योपरि कुहणिकया व्यवस्थिताभ्यां योगो हस्तयोर्योजन विशेषस्तत्प्रधाना मुद्रा योगमुद्रा भवतीति गम्यम् ॥ १५ ॥ चत्तारि अंगुलाई, पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥ १६ ॥ अङ्गुलानि स्वकीयान्येव पादयोरुत्सर्गः परस्परसंसर्गत्यागोऽन्तरमित्यर्थः । जिनानां कृतकायोत्सर्गाणां सत्का, जिना वा विभजेत्री मुद्रा जिनमुद्रा ॥ १६ ॥ मुत्तासुत्तीमुद्दा, जत्थ समा दोवि गब्भिआ हत्था । ते पुण निडालदेशे, लग्गा अन्ने अलग्गति ॥१७॥ मुक्ताशुक्तिरिव मुद्रां हस्तविन्यासविशेषात्मिका मुक्ताशुक्तिमुद्रा, यस्यां 'समौ' नान्योन्यान्तरिताद्यङ्गुलितया विषमौ 'द्वापि' न तु मुकुटाञ्जलिमुद्रयोरिव कदाचिदेकोऽपि गर्भिताविव गर्भितौ उन्नतमध्यौ न तु नीरन्ध्रौ चिपिटावित्यर्थः । हस्तौ करौ स्याताम् । तौ पुनरुभयतोऽपि सोल्लासौ करौ भालस्थलमध्यभागे लग्नौ कृत्वा पश्चाद्विधिना प्रणिधत्ते इत्येके । अन्ये पुनस्तत्रालग्नानित्येवं वदन्ति । नेत्रमध्यभागवकाशगतावेव भ्रमयित्वा अन्यथा वा यथान्नायं पुरुषस्त्रिया वाश्रित्य समाधेयम् ॥ १७ ॥ 1 क-ध- 'साङ्गुलितया' । 2 'पुरुषेण' इति भवेत् परं तथा कापि न लभ्यते ॥ सावचूरि० ॥ ८ ॥
SR No.600333
Book TitleSavchurikam Bhashyatraya
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages72
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy