________________
चै.वं.भाष्य
सावचूरि.
श्रामण्यावस्था ३ च । तत्र स्वपनकारैर्जन्मावस्था, मालाधारै राज्यावस्था, श्रामण्यावस्था तु भगवतोऽपगतकेशशीर्षमुखदर्शनात्सुज्ञानैव । प्रातिहार्यैः केवलिकामवस्थां भावयेत् । तत्र परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केल्लि: १, मालाधारैः पुष्पवृष्टिः २, वीणावंशकरैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः ३, प्रतिमामूर्धपश्चाद्भागेऽहत्कायतः तेजःपुञ्ज सुरैः संपिण्ड्य तद्रूपसुखावलोकनाय-रात्रावपि तमोऽपनयनार्थं च जिनशिरसः पश्चात्कृतं भावलयायमानं भामण्डलं ४, दुन्दुभिकै छत्रत्रयोपरि निर्मापितैर्वाद्यमाना भेरयो महाढक्काः स्मर्यन्ते ५, चामर ६ सिंहासन७च्छत्र ८त्रयाणि प्रकटान्येव, पर्यङ्कासनेन-"अन्तर्दक्षिणजंघोोर्वा माहिं यत्र निक्षिपेत् । दक्षिणं वामजनोवोस्तत्पर्यङ्कासनं मतम् ॥१॥ पर्यो नाभिगोत्तानदक्षिणोत्तरपाणिकः” इति लक्षणेन कायोत्सर्गेणं प्रतीतेन भावयेत्सिद्धावस्थाम् ॥११॥१२॥ उड्डाऽहोतिरिआणे,तिदिसाण निरिक्खणं चइजहवापिच्छिमदोहिणवामाण जिणमुहन्नथदिट्ठिजुओ १३॥
'ईर्यापथिकी प्रतिकामता त्रीन् वारान् पदन्यासभूमिः प्रमार्जनीयेति सप्तमत्रिकभावार्थः॥ १३ ॥ __ वन्नतियं वैन्नत्थालंबणमालंबणं तु पडिमाई । जोगजिणेमुक्तसुत्तीमुद्दाभेएण मुद्दतिअं ॥१४॥
वर्णाः स्तुतिदण्डादिगतान्यक्षराणि, ते च स्फुटसंपदच्छेदसुविशुद्धा अन्यूनातिरिक्ता उच्चार्याः । अर्थश्च तेषामेव यथापरिज्ञानं चिन्त्यः । 'आलम्बनं तु' देवान् वन्दमानस्य प्रतिमादि । आदिशब्दादावादादिपरिग्रहः ॥ १४ ॥
1ग-घ-'सुज्ञातैव'। 2 क-घ-'मूर्खः प-13 इतः परम् क-च-'च' इत्यधिकम्। 4 इतोऽर्वाक् क-ध-'सुगमा' न शेषेषु । 5 इतः परम् क-घ-'अत्रानुक्तोऽपि ज्ञेयः' इत्यधिकम् । 6 क-'यथावगमम् ।।
॥७॥