Book Title: Sanskrit Shloak Sangraha Part 02
Author(s): Suryamuni
Publisher: Dharmdas Jain Mitra Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
स्वभाव एवात्र तथातिरिष्यते,
यथा प्रकृत्या मधुरं गवां पयः ॥
काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके । मूर्खः पण्डितसंगमे न रमते दासो न सिंहासने ॥ कुस्त्री सज्जनसंगमे न रमते नीचं जनं सेवते । या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥
8
पिण्डे पिण्डे मतिर्भिन्ना, कुण्डे कुण्डे नवं पयः । जाती जाती नवाचारा, नवा वाणी मुखे मुखे ॥
मधुना सिञ्चयेविम्बं निम्बः किं मधुरायते । जातिस्वभाव-दोषोऽयं, कटुकत्वं न मुञ्चति ॥
मूर्खाणां परिडता द्वेष्या, निर्धनानां महाधनाः । व्रतिन: पापशीलानामसतीनां कुलस्त्रियः ॥
काके शौचं द्यूतकारे च सत्यं,
सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
३२ क्रीने धैर्य मद्यपे तस्वचिन्ता,
राजा मित्र केन दृष्टं श्रुतं वा ॥
www.kobatirth.org
मर्कटस्य सुरापानं, तन वृश्चिकदंशनम् । तन्मध्ये भूतसंचारो, यद्वा तद्वा भविष्यति ॥
इन्दुं निन्दति तस्करो गृहपति जारो सुशीलं खलः । साध्वीमप्यसती कुलीनमकुलो जहाजरन्तं युवा ॥ विद्यावन्तमनन्तरो धनपतिं नीचश्च रूपोज्ज्वलम् । वैरूप्येण हतः प्रबुद्धमयुधो कृष्टं निकृष्टो जनः ॥
१०
काकस्य गात्रं यदि कांचनस्य,
एकैकपक्षे प्रथितं
माणिक्य रत्नं यदि चुदेशे । मणीनां, तथापि काको न तु राजहंसः ॥
"
नैर्मश्यं वपुषस्तवास्ति वसतिः पद्माकरे जायते । मन्दं याहि मनोरमां वद गिरं मौनं च संपादय ॥ धन्यस्त्वं बक राजहंसपदवीं प्रासोसि किं तैर्गुणैनीरक्षीरविभागकर्मनिपुणा शक्तिः कथं लभ्यते ॥
१२
नलिकागतमपि कुटिलं, न भवति सरलं शुनः पुच्छम् । तद्वत्खलजनहृदयं, बोधितमपि नैव याति माधुर्यम् ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१३
अस्ति यद्यपि सर्वत्र, नीरं नीरजमण्डितम् । रमते न मरालस्य, मानसं मानसं विना ॥
१४
भवत्येकस्थले जन्म, गन्धस्तेषां पृथक् पृथक् । उत्पक्षस्य मृणालस्य, मत्स्यस्य कुमुदस्य च ॥
१५
किं कुलेन विशालेन, शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥
१६
न दुर्जनः साधुदशामुपैति, बहुप्रकारैरपि शिक्ष्यमायाः । मनोमयमेव ॥
१७
प्रकृत्यैव विभिद्यन्ते, गुणा एकस्य वस्तुनः । वृन्ताकः श्लेष्मदः कस्मै, कस्मैचिद्वातरोगकृत् वीर-स्वभावः ।
लब्ध्वापि संपदो दीनों, हीनत्वं नैव मुञ्चति । शिरश्छेदेऽपि वीरस्तु धीरत्वं नैव मुञ्चति ॥
१२

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86