Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra थ्वीचन्द्र www.kobatirth.org मन्येऽहो ! मानवेभ्यो यद्वरं ते विहगा अपि । ये यान्ति सत्वरं तत्र यत्रात्मीयः प्रियो जनः ॥ ५३ ॥ अहो ! तत्किमहो भावि महोदयमहोमयम् । यत्रैतत्प्रेयसीपाणिमादास्ये पाणिना स्वयम् ॥ ५४ ॥ इति हृल्लेखमुल्लेखविशेषविहितारतिः 1 नृपतिः पुनरास्थानमभजत् प्रातरञ्जसा ॥ ५५ ॥ समन्तात्सर्वसामन्ताः समेतास्तमुपास्तये । सभा सा भाति गीर्वाणपतिपर्षन्निभा स्फुटम् ॥ ५६ ॥ अत्रान्तरे गुरुश्वासरुद्धकण्ठेन केनचित् । चरेणागत्य विज्ञप्तो निःशङ्कः शङ्खभूपतिः ॥ ५७ ॥ किमयागान्महासैन्यं देव ! स्वदेशसीमनि । दिशो दशापि पूर्यन्ते तज्जतूर्यरवेण यत् ॥ ५८ ॥ जलाशया सञ्चरद्भिर्भटैः सर्वे जलाशयाः । खला इव भवन्ति स्म तत्क्षणात्कलुषाशयाः ॥ ५९ ॥ श्रुत्वेति भूपः सपदि विस्मृतान्यप्रयोजनः । भ्रुकुटीभङ्गभीमाङ्गो भटानाहोत्कटो रुषा ॥ ६० ॥ भोः ! वादयन्तु यानाय ढक्कां निष्कास्य कोशतः । समग्रापि च सङ्ग्रामसामग्री क्रियतां द्रुतम् ॥ ६१ ॥ तथा कृते तैर्भूकान्तोऽभिषिषेणयिषुर्यदा । तावदागत्य दत्तोऽसौ सस्मितस्तं व्यजिज्ञपत् ॥ ६२ ॥ अय्येतन्नेतरारब्धं किमकाण्डेऽपि विङ्गरम् । निजाग्रजजयसेनकुमारेण यदन्विता ॥ ६३ ॥ वृणीतुं त्वां समायाति सकला सा कलावती । यया चित्रस्थयाप्युच्चैररञ्जित मानसम् ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ६४ ॥ ( युग्मम् ). चरितम् !

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 155