Book Title: Patanjalyog Sutra Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 195
________________ ૧૬૬ પાતંજલ યોગસૂત્ર ભાગ-૨ | કૈવલ્યપાદ | સૂત્ર-૨૨ सूत्रार्थ : દેખા અને દશ્યથી ઉપરક્ત એવું ચિત્ત અર્થાત દષ્ટા એવા પુરુષ અને દશ્ય એવા ઘટપટાદિ વિષયોથી ઉપરક્ત એવું ચિત્ત સર્વાર્થ, છે=સર્વ અર્થને ગ્રહણ કરનાર છે. I૪-૨શી. टी : ___ 'द्रष्टिति'-द्रष्टा पुरुषस्तेनोपरक्तं तत्सन्निधानेन तद्रूपतामिव प्राप्तं, दृश्योपरक्तं = विषयोपरक्तं गृहीतविषयाकारपरिणामं, यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थं भवति, यथा निर्मलं स्फटिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थमेवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणसमर्थं भवति, न पुनरशुद्धत्वाद्रजस्तमसी, तन्न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैवैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्या-दामोक्षप्राप्तेरवतिष्ठते, यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति एवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याभिव्यङ्ग्यमभिव्यज्यते चैतन्यम्, अत एवास्मिन् दर्शने द्वे चिच्छक्ती नित्योदिताऽभिव्यङ्ग्या च, नित्योदिता चिच्छक्तिः पुरुषस्तत्सन्निधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वमभिव्यङ्ग्या चिच्छक्तिः, तदत्यन्तसन्निहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते, तदेव शान्तब्रह्मवादिभिः साङ्ख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते, यत्त्वनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित् कस्याचिदङ्गित्वात् त्रिगुणं प्रतिक्षणं परिणममानं सुखदुःखमोहात्मकमनिर्मलं तत्तस्मिन् कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यतामापादयति, तच्छुद्धमाद्यं चित्तसत्त्वमेकतः प्रतिसङ्क्रान्तचिच्छायमन्यतो गृहीतविषयाकारेण चित्तेनोपढौकितस्वाकारं चित्सङ्क्रान्तिबलाच्चेतनायमानं वास्तवचैतन्याभावेऽपि सुखदुःखस्वरूपभोगमनुभवति स एव भोगोऽत्यन्तसन्निधानेन विवेकाग्रहणादभोक्तुरपि पुरुषस्य भोग इति व्यपदिश्यते, अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तं-'सत्त्वतप्यत्वमेव पुरुषतप्यत्वम्' इति । अन्यत्रापि प्रतिबिम्बे प्रतिबिम्बमानछायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते, एवं सत्त्वेऽपि पौरुषेयचिच्छायासदृशस्वकीयचित्छायान्तराभिव्यक्तिः प्रतिबिम्बशब्दार्थः । टोडार्थ : ___द्रष्टा ..... अवतिष्ठते ॥ दृष्टा पुरुष छ, तनाथी 6५२sत मे ना संनिधानने १२५ो तद्रूपताना જેમ પ્રાપ્ત એવું, ચિત્ત દેશ્યથી ઉપરક્ત વિષયોથી ઉપરક્ત અર્થાત્ ગ્રહણ કરાયેલા વિષયકારના પરિણામવાળું જ્યારે થાય છે અર્થાત્ દેખાથી અને વિષયોથી ઉપરક્ત ચિત્ત જ્યારે થાય છે, ત્યારે તે જ ચિત્ત સર્વ અર્થને ગ્રહણ કરવા સમર્થ બને છે. જે પ્રમાણે નિર્મળ એવા સ્ફટિક, દર્પણ વગેરે જ પ્રતિબિંબ ગ્રહણ કરવામાં સમર્થ બને છે, એ

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272