Book Title: Patanjalyog Sutra Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 234
________________ ૨૦૫ पातलयोगसूत्र भाग-२ | पत्यपाE | सूत्र-33 * अथवा स्वरूपप्रतिष्ठा वा चितिशक्तेरिति मा ५४iतर मु४५ थितिशस्तिनी १३५प्रतिडावल्य छ એ પ્રમાણે અર્થ જાણવો. ___ इति श६ ग्रंथनी समाप्ति मर्थ छ. ॥४-33|| टी : 'पुरुषार्थेति'-समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः-प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवः, यदि वा चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत्कैवल्यमुच्यते, न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेवंविधश्चिद्रूपो यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवंरूपोऽवतिष्ठते । तथाहि-संसारदशायामात्मा कर्तृत्वभोक्तृत्वानुसन्धातृत्वमयः प्रतीयतेऽन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्तदा ज्ञानक्षणानामेव पूर्वापरानुसन्धातृशून्यानामात्मभावे नियतः कर्मफलसम्बन्धो न स्यात् कृतहानाकृताभ्यागमप्रसङ्गश्च, यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तृत्वं भवेत् तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत, सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्यानुसन्धानेनैव प्राप्तत्वात्, ज्ञानक्षणानां परस्परभेदेनानुसन्धानशून्यत्वात्तदनुसन्धानाभावे कस्यचिदपि व्यवहारस्यानुपपत्तेः कर्ता भोक्ताऽनुसन्धाता यः स आत्मेति व्यवस्थाप्यते, मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्यावशिष्यते, तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते न पुनरात्मसंवेदनेन, यस्माद्विषयग्रहणसमर्थत्वमेव चिते रूपं नाऽत्मग्राहकत्वम् । तथाहि-अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते स्वरूपं गृह्यमाणमहमिति न पुनर्युगपद् बहिर्मुखतान्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्ध कर्तुं शक्यम्, अतः (एवम्) एकस्मिन् समये व्यापारद्वयस्य कर्तुमशक्यत्वाच्चिद्रूपतैवावशिष्यते, अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवाऽऽत्माऽवतिष्ठत इत्येव युक्तम्, संसारदशायां त्वेवंभूतस्यैव कर्तृत्वं भोक्तृत्वमनुसन्धातृत्वं च सर्वमुपपद्यते । तथाहि-योऽयं प्रकृत्या सहानादिर्नैसर्गिकोऽस्य भोग्यभोक्तृत्वलक्षणः सम्बन्धोऽविवेकख्यातिमूलस्तस्मिन् सति पुरुषार्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिस्तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं चिच्छायासमर्पणसामर्थ्य बुद्धिसत्त्वस्य च सङ्क्रान्तचिच्छायाग्रहणसामर्थ्यं चिदवष्टब्धायाश्च बुद्धेर्योऽयं कर्तृत्वभोक्तृत्वाध्यवसायस्तत एव सर्वस्यानुसन्धानपूर्वकस्य व्यवहारस्य निष्पत्तेः किमन्यैः फल्गुभिः कल्पनाजल्पैः । ___ यदि पुनरेवंभूतमार्गव्यतिरेकेण पारमार्थिकमात्मनः कर्तृत्वाद्यङ्गीक्रियेत तदाऽस्य परिणामित्वप्रसङ्गः परिणामित्वाच्चानित्यत्वे तस्याऽऽत्मत्वमेव न स्यात्, न होकस्मिन्नेव समय एकेनैव रूपेण परस्परविरुद्धावस्थानुभवः सम्भवति, तथाहि-यस्यामवस्थाया

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272