Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 40
________________ प्रकरण. गुणरूपे - णिक श्रावक मुतायुदाहरणानि ॥१३॥ FRELCANCHORRORRCHCRACANCCact नरके दुःखभाजनं संवृत्त इति संक्षेपार्थः ॥ अधुना पंचमं द्वारं गुणरूपमाहजे पुण वहविरइजुया उभओ लोगेऽवि तेसि कल्लाणं । जह सूवगहियदारगदामन्नगमाइयाणं च ॥२५॥ ये पुनः प्राणिनो 'वधविरतियुता' वधनिवृत्तिसमन्विता 'उभयलोकेऽपि' उभयलोकयोः-इहपरलोकयोस्तेषां कल्याणं जायते, तेषां (कल्याण) परम्परा जायत इति, दृष्टान्तद्वयमत्र, यथा मूपकारगृहीतश्रावकदारकः दामनकश्च, आदिशब्दात् क्षेमादयश्चेति संक्षेपार्थः। विस्तरार्थः कथानकगम्यः, तच्चेदं वणिक्श्रावकपुत्रः कश्चिचौरैरपहृत्योज्जयनी नीत्वा राजमूपकारहस्ते विक्रीतः, स च तेनोक्तो-लावकान् उच्छ्वासय, तेन पंजरान् मुक्ताः, तेनोक्तं-वयं कुरु, स च तूष्णोभावेन स्थितः, पुनः पुनरुच्यमानोऽपि यदा न करोति वधं ताडितः, ततो रोदितुमारब्धः करुणं, राज्ञा च वातायनस्थितेन श्रुटि च, ज्ञातः सर्वोऽपि वृत्तान्तस्ततो राज्ञश्चित्तमध्ये महान् संतोषः संजातः, तथापि परीक्षार्थ हस्तिना मारयित्वा व्यापादय, इत्युक्तेऽपि राज्ञा तथापि निर्भयो वदति च-प्राणात्योऽपि न पंचेन्द्रियादिवर्ध करोमि, ततो राज्ञोक्त-मम दीयतामेषः, शरीररक्षकः कृतो, जीवनोपायो दत्तो, लोकपूज्यः संजातो नृपपूजितत्वाद्, अतः प्राणिवधनिवृत्तेर्गुण इति प्रथम कथानकम् । द्वितीयं कथानकम् कश्चिन्मात्सिकः जलाशयात् माघमासे उती निकटवर्तिनं श्रमणकमातापनां कुर्वाणं ददर्श अप्रावरणः, स चानुकंपया जालं तस्योपरि क्षिप्तवान् , गतश्च स्वगृह, स च रजन्यां शीतातः पुनः साधु स्मरति स्म, मम वैश्वानरे निकटवर्तिनि स्त्रीजने च पलालसंस्तारके च तथाप्यतिशीतं, सच कथं रजनी यापयिष्यति ?, प्रभातसमये च गतः साधुसमीपं यावद् दृष्टः IG For Private & Personal use only ॥१३॥ Jain Education in jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138